________________
३२
करणप्रकाशे।
अन्त्या X म क -त्रिxमक । अत उपपन्नं यथोक्तम् ॥१२॥
इअं
फज्या
अन्त्या दिनार्धश्रवणेन निघ्नी हृतेष्टकर्णेन फलोनिताऽन्त्या । शेषस्य यच्चापमथ क्रमेण रसो-६ घृतं ता नतनाडिकाः स्युः ॥१३॥ स्पष्टार्थम् । • अत्रोपपत्तिः । एकादशश्लोकोक्तविधिवैपरीत्येन सुगमा ॥१३॥ दिनार्धकर्णेन हता त्रिभज्यका विभाजितेष्टश्रवणेन तत् फलम् । क्रमेण चापं दिनखण्डसङ्गुणं खनन्द-६० भक्तं घटिकाः स्युरुन्नताः ॥१४॥
इति करणप्रकाशे त्रिप्रश्नाधिकारः ॥४॥ स्पष्टार्थम् । __ अत्रोपपत्तिः । द्वादशश्लोकोक्तविधिवैपरीत्येन सुगमा ॥१४॥ श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितः प्रश्नविधौ तु हेतुः ॥
इति करणप्रकाशस्य सद्वासनायां त्रिप्रश्नाधिकारः समाप्तः ॥४॥ तिथिगतैष्यघटीगुणिते गती गगनषड्-६० विहृते च कलादिना । विरहितौ सहितौ रविशीतगू समकलौ ग्रहणे भवतः सदा ॥१॥ स्पष्टार्थमुपपत्तिश्च चालनविधिना स्फुटा ॥१॥ भुक्तिर्दशां-१० शसहिता दलिता च भानो
बिम्बं विधोर्गुण-३ हता विहृताऽब्धिशैलैः ७४। आशा-१० हते युगकरै-२४ विषयाद्रिभि ५७ पस्ते
भक्ते गती फलकलाविवरं त्वगोः स्यात् ॥२॥ ते रविचन्द्रयोर्गती आशा-१० हते क्रमेण चतुर्विंशत्या विषयाद्रिमि-७५ हृते फलकलानां विवरं तु अगो राहोर्विम्बं स्यात् । शेष स्पष्टार्थम् । ___ अत्रोपपत्तिः । भानोर्गतिः स्वदशभागयुताधिता वेत्यादिभास्करोतेन रविचन्द्रविम्बानयनं स्फुटम् । भानोर्गतिः शरहता रविभिर्विभक्ते
Aho! Shrutgyanam