________________
करणप्रकाशे।
स्पष्टार्थम् ॥ ५ ॥ त्यक्त्वोदयान् भोदयशुद्धतुल्यान् राशीन् क्षिपेद्भास्वति खाग्नि-३०निघ्नान् शेषाद् विशुद्धोदयमानभक्ताभागादि लब्धं च विलग्नमिष्टम् ॥ ६ ॥ स्पष्टार्थम् ॥ ६ ॥ तदेव भार्धान्वितमस्तलग्नं गम्यं रवेः स्यादुदयाद्गतं यत् । प्राग्वत् फलं तद्युतिरेव युक्तो मध्योदयैरिष्टविनाडिकाः स्युः ॥ ७॥ स्पष्टार्थम् ॥ ७ ॥
सवितुरगतकालाल्पेष्टकालः खरामै-३०
गुणित उदय भक्तांशान्वितोऽको विलग्नम् । रवितनुविवरांशैः सङ्गुणः स्वोदयोऽसौ
खशिखि-३० विहृतकालश्चैकमे लग्नभान्वोः ॥८॥ स्पष्टार्थम् ॥ ८॥
क्रान्त्यक्षयोगविवरं समभिन्नगोले__ऽनष्टं विशोध्य नवते-९० रवशेषमौा । भक्ते विनष्टभवनत्रितयोत्थजीवे १२०
सूर्या-१२ हते दिनदले खलु भाश्रुती स्तः ॥ ६ ॥ अनष्टमविनष्टं च नतांशा दिनार्धनाः । शेषं स्पष्टम् ।
अत्रोपपत्तिः । पलावलम्बावपमेन संस्कृतौ नतोन्नते ते भवतो दिवादले इत्यादिभास्कर प्रकारेण सुगमा । तत उन्नतांशज्यया नतज्यात्रिज्ये तदा द्वादशाङ्गुलशकुना किम् । इत्यनुपातेन छायाकौँ भवत इति सर्व सुगमम् ॥ ९ ॥ कालो गतः प्रागपरत्र शेषः स्यादुन्नतस्तद्रहितं दिनार्धम् । नतो रस-६ना घटिका लवाः स्यु वा नतस्योत्क्रमतो विधेया॥१०॥ स्पष्टार्थम् ।
अत्रोपपत्तिः । स्यादुन्नतं झुगतशेषकयोर्यदल्पमित्यादिना सुगमम् । इष्टान्त्याज्ञानार्थ नतोत्क्रमज्या साधितेति ॥१०॥
Aho ! Shrutgyanam