________________
२८
करणप्रकाशे। वक्रोदयास्तावधितोऽधिकोनाः स्वशीघ्रकेन्द्रस्य कला विभक्ताः । भवन्ति मन्दस्फुटभुक्तिहीनस्वशीघ्रगत्या दिवसा गतैष्याः ॥१३॥
इति करणप्रकाशे स्पष्टाधिकारः ॥३॥ स्पष्टार्थ केन्द्रगत्याऽनुपातेन वासना चातिसरला ॥१३॥
श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितः स्पष्टगतौ तु हेतुः ॥ इति करणप्रकाशस्य सद्वासनायां स्पष्टाधिकारः समाप्तः ॥ ३ ॥ सूर्ये तुलाजादिगते दिनार्धजे
छाये युते दस-२ हृते पलप्रभा । छायाऽर्क-१२ वर्गक्यपदं श्रुतिर्भवेतू
कार्क-१२ वर्गान्तरजं पदं प्रभा ॥१॥ स्पष्टार्थम् ।
विषुवद्दिने दिनदले द्वादशाङ्गुलनुभा पलभेति प्रसिद्धा । विषुवद्दिनं तु वर्षमध्ये सायनमेषतुलादिगते रवौ द्विर्भवति । अतस्तदुद्भवयोर्भयोर्योगाईसमा पलभाऽङ्गीकृताऽऽचार्येण ततः पलकर्णानयन पलकर्णतश्छायानयनं च प्रसिद्धमेव । भानौ गते क्रियतुलादिमहदले ये छाये तयोर्युतिदलं विषुवत्प्रभा स्यादिति लल्लानयनमेवाचार्योक्तमिति ॥ १ ॥ सूर्या-१२ क्षभासंगुणिते त्रिभज्ये लम्बाक्षजीवे पलकर्णभक्ते । अक्षज्यकाया धनुरक्षभागा याम्याः स्वखाऊ-२०शविवर्जिताः स्युः॥२॥
अक्षभागाः स्वस्य खार्क-१२० लवेन विनितास्तदा वास्तवा अक्षभागाः स्युरित्यर्थः । शेषं स्पष्टम् ।
अत्रोपपत्तिः । अत्र भूटष्ठस्थस्य शङ्कोर्वशेन विषुवद्दिने पलमा विदिता तद्वशतो मध्याह्ने रवेः पृष्ठीया नतांशा अक्षभागा जाताः । अतो रविहग्लम्बनेन ते हीना गर्भाभिप्रायेण वास्तवा अक्षभागाः स्युः । तत्राक्षभागा गणितागता द्विगुणाः स्वल्पान्तरात् जाता पृष्ठीयनतांशज्या २अ ।
Aho! Shrutgyanam