________________
श्रीजानकीवल्लभो विजयते ।।
अथ सुधाकरद्विवेदिकृतसहासनासहितः
करणप्रकाशः प्रारभ्यते ॥
ब्रह्माऽच्युतत्रिनयनाऽर्कशशाङ्कभीमसौम्येज्यशुक्रशनिवागधिपागणेशान् । नत्वाऽहमार्यभटशास्त्रसमं करोमि
श्रीब्रह्मदेवगणकः करणप्रकाशम् ॥ १॥ सत्यव्रतं सततमात्मजनाभिरामं सीतापतिं पितृपरं परिपूर्णकामम् । साकेतकेतनमहस्करवंशगामिराम मनोहरतनुं शिरसा नमामि ॥ १ ॥ श्रीब्रह्मदेवकृतिरत्र कृतिप्रसिद्धा तैर्मानिता विबुध माध्वमतीयासिद्धाः । ये साऽथ सत्सुगमवासनया मयैव सम्पूज्यते सुमनसां च मुदे सदैव ॥२॥
अच्युतो विष्णुः । त्रिनयनो महादेवः । अर्कः सूर्यः। ईज्यो गुरुः । वागधिपा सरस्वती । शेषं स्पष्टार्थम् ॥ १ ॥
शाकः शक्रदशो-१०१४ नितो रवि-१२ गुणश्चैत्रादिमासान्धितो द्विष्ठो दन-२हतो द्विराम-३२सहितोऽधो भूपनन्दै-९१६र्हतः। लब्धोनो विहृतः शिलीमुखरसै-६५ राप्ताऽधिमासैर्युतः
खत्रिघ्नः सतिथिर्दिधा कररसै-६२ युक्तस्ततोऽधः कृतः ॥२॥ स्पष्टार्थम् ।
अत्रोपपत्तिः । आर्यभटमते युगसौरमासाः = ५१८४१० ० ० ० ।
Aho ! Shrutgyanam