________________
भूमिका ।
ब्रह्मदेवः । (१०१४ )
आसीञ्चन्द्रदेवतनयो माथुरो ब्राह्मणोऽयम् । एनेनाssर्यभटानुसारेण शकदिमिते १०१४ शके करणप्रकाशनामकं करणं विरचितम् । अत्र मध्यमाधिकारः । तिथ्यधिकारः । स्पष्टाधिकारः । त्रिप्रभाधिकारः । चन्द्रग्रहणाधिकारः । सूर्यग्रहणाधिकारः । उदयास्ताधिकारः । शृङ्गोन्नत्यधिकारः । ग्रहयुत्यधिकारः । इति नवाधिकाराः संक्षेपतो विलिखिताः सन्ति २२५ लोकैः ।
माध्व* मतीया एतत्करणानुसारेणागतान् तिथ्यादीन् व्रतोपवासादिषु स्वीकुर्वन्ति । ब्रह्मदेवस्यान्या कृतिरस्माभिर्नोपलब्धा । करणप्रकाशकस्यातीव दुर्मिलं लिखित पुस्तकं शुद्धं प्राचीनं च काशिकराजकीय पाठशालासरस्वतीभवने वर्त्तते । तस्मादेव मया स्वविया वासनाभिर्विभूष्य सर्वेषामुपकारायायं संशोध्य मुद्रितः ।
यद्यप्ययं ग्रन्थारम्भे स्वकीयं करणमार्यभटानुसारीति विलिलेख तथापि ग्रन्थस्य सूक्ष्मधियाऽवलोकनेन बहुत्रान्यथा प्रतिभाति बहुत्र लोक्तसदृशमेव |
-
शङ्करवालकृष्णदीक्षितलेखानुसारेण ब्रह्मदेवमतेन ४४९ शकेऽय. नांशाभावः प्रत्यब्दमेककलायनगतिश्च ( भारतीय ज्योतिःशास्त्रस्य २४०२४१ पृष्ठे विलोक्ये) परन्त्वत्रायनभागचर्चा न कुत्रापि दृश्यते ।
* माध्वसाम्प्रदायिककृष्णामृतव्याक्यार्थे ।
विष्णोश्च जन्मदिवसानि हरेर्दिनं च विष्णुव्रतानि विविधानि च विष्णुभं च । कार्याणि चायशास्त्रत एव सर्वे "रित्यादि तथा "आर्यभटसिद्धान्तसंमतकरणप्रकाशय
न्थः " इति ।
46
Aho! Shrutgyanam