SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५० ज्यौतिषसिद्धान्तसंग्रहे भानुभाग्रस्तमूर्तीनां वामदेव प्रवच्म्यहम् ॥ १ ॥ जीवलोहितमन्दाश्च रवितोऽभ्यधिका यदा । पश्चादस्तं गता ज्ञेया जनाः प्रागुदयं गताः ॥ २ ॥ एवमस्तोदितौ ज्ञेयौ वक्रितौ बुधभार्गवौ । सूर्यादूनास्तदा प्राच्यामस्तं चन्द्रजभार्गवाः ॥३॥ यदाऽधिकास्तदा पश्चादस्तं याता भवन्ति ते । एवं यदा भवेत् प्राच्या भास्करोदयकालिको ॥४॥ तदा खेचरमार्तण्डौ कुर्यादा पश्चिमे तथा । सूर्यास्तकालिको तौ च ग्रहो दृकर्मसंस्कृतौ ॥ ५ ॥ तयोरप विवरप्राणा: प्राच्या साध्या हि पूर्ववत् । प्रतीचां षड्भयुतयोस्तहल्लग्नान्तरासवः ॥६॥ ते विभक्ताः खतकैच कालाशांख्या भवन्ति ते। शनिजीवकुजानां च तिथि-१५ रुद्र-११ धना-१७ शकाः ॥ ७॥ यदा तत्तल्यकालांशाः पश्चात् तेऽस्तं गता ग्रहाः। पुनस्तत्तुल्यकालांशास्तदा पूर्वोदयं गताः ॥८॥ शुक्रस्य पश्चादस्तः स्यादष्टाभि-८ रुदयं पुनः । तावगिरंशैः पूर्वस्यां तत्रास्तं दश-१० भिलवैः ॥ ६ ॥ पश्चात् तावगिरेवांशः कालांशैरुदयो भवेत् । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy