________________
अथ पितामहसिद्धान्तः।
श्रीगणेशाय नमः।
पुष्कर उवाच । अथ भगवन्तं भुवनोत्पत्तिस्थितिसंहारकारक चराचरगुरुं प्रतियशसं समधिगम्य भृगुर्विज्ञापयामास । भगवन् ज्योतिःशास्त्रं विना गणितेन टुरवगाहमतो गणितविधिमाचक्ष्व । तमुवाच श्रीभगवान् । श्टा वत्स गणितज्ञानम्। अनादिनिधनकालः प्रजापतिर्विष्णुः । तस्य ग्रहगत्यनुसारेण ज्ञानं गणितम् । तत्राकस्य भागभोगः सौराहोरात्रम् । तिथिश्चान्द्राहः । अर्कोदयात् सावनः । चन्द्रनक्षत्रभोगेन नाक्षत्राहोरात्रम । सावनाहोरात्रं नराणाम् । सार्क तेषां दिनमः । व्यों रात्रिः। चन्द्रमसश्चान्द्रमासः पिटणामहोरात्रम् । तेषां कृष्णाष्टम्यामर्कोदयः । अमावास्यायां मध्याह्नः । शलाष्टम्यामस्तसमयः । पौर्णमास्यामर्धरात्रम । अर्कस्य भगणभोगः दिव्याहोरात्रम् । तेषामकस्य मेषप्रवेशे सूर्योदयः कर्कटप्रवेशे मध्याह्नः। तुलाप्रवेशेऽस्तसमयः। मकरमवशेऽर्धरात्रम्। मेषादिस्थे मध्यमे जीवे जीवमा.
Aho ! Shrutgyanam