________________
Shri Ashtapad Maha Tirth
आरोढुं । गौतमस्तु जङ्घाचारणलब्ध्या लूतातन्तुनिश्रयापि चलंस्तेषां पश्यतामेवागतो गतश्चाऽदृश्यतां । ते विस्मिताः पश्यन्तो यदैष उत्तरेत्तदाऽस्यैव शिष्या वयं भविष्याम इति दध्युः ।
अथ गौतमस्तत्र चैत्यानि नत्वेशान्यां दिशि पृथिवीशिलापट्टेऽशोकद्रोरधो रात्रिवासकं स्थितः, इतो धनदोऽष्टापदे चैत्यानि नन्तुमेतो गौतमं नत्वा देशनायां साधुगुणान् 'अन्ताहाराः प्रान्ताहाराः साधवः स्युः ' इत्यादिकान् श्रुत्वा दद्यौ, यदेष गुरुदेवं साधुगुणान् वक्ति, स्वयं च तां रूपश्रियं धत्ते, या देवानामपि न, एवं तदाकूतं गौतमो ज्ञात्वा पुण्डरीकाध्ययनमूचे ।
सगरः पूर्वाङ्गाधिक ७१ पूर्वलक्षैरुत्पन्नचतुर्द्दशरत्नो जितषट्खण्डो भारतराज्यं चक्रे । जातास्तस्य षष्टिसहस्राणि सुताः, तेषु ज्येष्ठो जह्नुकुमारो राज्ञोऽनुमत्या समस्तबन्धुयुक् पृथ्वीं पश्यन्नष्टापदं प्राप्य तदधः सैन्यं निवेश्य सुरसान्निध्यात्तच्छिरोऽधिरुह्य भरतकारितचतुर्विंशतिजिनबिम्बानि नत्वा स्तूपादींश्च दृष्ट्वा मन्त्रिमुखात् स्वपूर्वजकारितं च तद् ज्ञात्वोचे भो वीक्षध्वमेतत्सममन्याद्रिं, ततो राजनरैः सर्वां क्ष्मां निभाल्योचे स्वामिन्नास्तीदृशोऽद्रिः, ततोऽस्यैव रक्षां कुर्म इति सर्वे चक्रिपुत्रा जह्नुमुख्या दण्डरत्नेनाष्टापदे परितः परिखां चक्रुः, तदा दण्डरत्नं सहस्रयोजनानि दर्भवद्भुवम्भित्वाऽधो व्यन्तरभवनान्यगात्, भिन्नानि च तद्भवनानि । तदद्भुतं दृष्ट्वा भीता नागाः शरणाय ज्वलनप्रभव्यन्तरेन्द्रं गताः, उक्तः स्वोदन्तः इन्द्रः सगरसुतानेत्योचे, भो ! व्यन्तरलोकः सोपद्रवो भवति, किमेतदारब्धमनात्मज्ञैर्भवद्भिः ? ततो जह्नुना मृदूचे भो इन्द्र ! अष्टापदतीर्थरक्षणार्थ परिखा कृता, नाऽथ कुर्म इदृक्, कुरु प्रसादं ! क्षमस्व मन्तुं ! सोऽकोपो गतः स्थानं, अथ जहन्वादिभिः परिखा जलपूर्णास्त्विति दण्डरत्नेन गङ्गा वालयित्वानीता, जलैः पूर्णा परिखा, मृज्जलपूरो गतो भवनेषु, त्रस्तो व्यन्तरलोकः, ज्वलनप्रभोऽवधिना तज्जह्नवादिकृतं ज्ञात्वा क्रुद्धा दृग्विषान्नागकुमारान् स्वसङ्गतिकांस्तत्र प्रैषीत् । तैर्ज्वलन्नैत्रैरीक्षिता जह्नुमुखाः सर्वे भस्मीभूताः, मान्त्रिसामन्ताः ससैन्याः प्रस्थिता अयोध्यां प्राप्ता मन्त्रयन्ति स्म, कुमारान् मुक्त्वैता राज्ञः किं मुखं दर्शयामो वह्नावेव प्रविशाम इति ।
अत्रान्तरेऽष्टापदासन्नवासिजना एत्य भूपं व्यजिज्ञपन् स्वामिन् गङ्गाप्रवाहो जह्नुनानीतः परिखां प्रपूर्य ग्रामादीन् प्लावयन्निवार्यः, ततो राज्ञा पौत्रो भगीरथोऽभाणि, वत्सेन्द्रनुमत्या दण्डरत्नेन गङ्गां पूर्वाब्धौ नय ! सोऽप्यष्टापदपार्श्वं गत्वाऽष्टमाराधितव्यन्तरेन्द्रप्रत्यक्षादेशाद् गङ्गां दण्डरत्नखातभूमार्गेण पूर्वाब्धौ निन्ये । तत्राऽनेकमुखवहनाद् गङ्गा सहस्त्र मुख्यभूत् । यत्र चाब्धौ पतिता, तत्र गङ्गासागरं तीर्थं जातं । गङ्गा जह्नुनानीतेति जाह्नवी, भगीरथेन विनीतेति भागीरथीत्युक्ता, सगरस्य समुद्रयायिगङ्गाकारितत्वात् सागरी कीर्तिर्जाता ।
પૂ. જયકીર્તિસૂરિષ્કૃત ટીકાર્થ
ઉત્તરાધ્યયનસૂત્રમાં ગૌતમસ્વામીને ઉદ્દેશીને પરમાત્મા મહાવીરસ્વામીએ ધ્રુમપત્રકનામનું ૧૦મું અધ્યયન
ऽधुं छे
તેમાં પૃષ્ઠિચંપામાં પરમાત્માથી પ્રતિબોધ પામીને શાલ-મહાશાલ રાજા અને યુવરાજ દીક્ષા ગ્રહણ કરે છે. પોતાનું રાજ્ય ભાણેજ ગાગલને સોંપે છે અને ગાગલિ તેમનો દીક્ષા મહોત્સવ કરે છે. શાલ-મહાશાલની વ્હેન યશોમતી અને તેના સ્વામી પિઠર પૃષ્ઠિચંપામાં હોવાથી ગૌતમની સાથે શાલ-મહાશાલ પરમાત્માની આજ્ઞાથી પૃષ્ઠિચંપામાં જાય છે અને ત્યાં ગૌતમસ્વામીએ કહેલ ધર્મથી ગાગલિ પિઠર-યશોમતી (માતા-પિતા) ની સાથે પોતાના પુત્રને રાજ્યમાં સ્થાપીને દીક્ષા ગ્રહણ કરે છે. ગૌતમસ્વામી તેઓને લઈને ચંપાનગરીમાં પરમાત્મા પાસે જવા નીકળે છે. શાલ-મહાશાલને રસ્તામાં જતાં ગાગલિ આદિની દીક્ષાના હર્ષથી અને Uttaradhyayan Sutra
•B5 8 za