________________
प्रथमोन्मेषः
( उपमा-रूपकादि ) अलङ्कारों की रचना करने पर उन स्वभावोक्ति तथा अन्य अलङ्कार) दोनों का भेद-ज्ञान स्पष्ट रहेगा अथवा अस्पष्ट रहेगा ॥१४॥
स्पष्टे सर्वत्र संसृष्टिरस्पष्टे सङ्करस्ततः । अलङ्कारान्तराणां च विषयो नावशिष्यते ॥ १५॥
( यदि दोनों का भेद ) स्पष्ट रहेगा तो सर्वत्र ( दोनों के तिलतण्डुलवत् स्थित रहने से ) संसृष्टि ( अलङ्कार होगा ) और ( यदि दोनों का भेद ) अस्पष्ट रहेगा तो ( नीरक्षीरवत् स्थित रहने से सर्वत्र सन्देह, एकाश्रयानुप्रवेश अथवा अङ्गाङ्गिभाव रूप तीन प्रकार का ) सर (अलंकार रहेगा। इस प्रकार सर्वत्र बस केवल इन्हीं संसृष्टि और संकर दो अलंकारों की ही स्थिति रहेगी, अतः ) अन्य (शुद्ध ) अलंकारों का विषय ही नहीं अवशिष्ट रहेगा । ( क्योंकि उनकी स्वभावोक्ति अलंकार के साथ संकर अथवा संसृष्टि अवश्य हो जायगी ।। १५ ॥
भूषणत्वे स्वभावस्यालंकारत्वे स्वपरिस्पन्दस्य यदा भूषणान्तरमलंकारान्तरं विधीयते तदा विहिते कृते, तस्मिन् सति, द्वयी गतिः संभवति । कासौ-तयोः स्वभावोक्त्यलंकारान्तरयोः भेदावबोधो भिन्नत्वप्रतिभासः प्रकटः सुस्पष्टः कदाचिदप्रकटश्चापरिस्फुटो वेति । तदा स्पष्टे प्रकटे तस्मिन् सर्वत्र सर्वस्मिन् कविवाक्ये संसृष्टिरे. वैकालंकृतिः प्राप्नोति । अस्पष्ट तस्मिन्नप्रकटे सर्वत्रैवैकः संकरोऽलंकारः प्राप्नोति । ततः को दोषः स्यादित्याह-अलंकारान्तराणां च विषयो नावशिष्यते । अन्येषामलंकाराणामुपमादीनां विषयो गोचरो न कश्चिदप्यवशिष्यते, निर्विषयत्वमेवायातीत्यर्थः । ततस्तेषां लक्षणकरणवैयर्थ्यप्रसङ्गः । यदि वा तावेव संसृष्टिसंकरौ तेषां विषयत्वेन कल्प्येते तदपि न किंचित् , तैरेवालंकारकारैस्तस्यार्थस्यानङ्गीकृतत्वात् । इत्यनेनाकाशचर्वणप्रतिमेनालमलीकनिबन्धनेन । प्रकृतमनुसरामः । सर्वथा यस्य कस्यचित् पदार्थजातस्य कविव्यापारविषयत्वेन वर्णना. पदवीमवतरतः स्वभाव एव सहृदयाह्लादकारी काव्यशरीरत्वेन वर्णनीयतां प्रतिपद्यते । स एव च यथायोगं शोभातिशयकारिणा येन केनचिदलंकारेण योजयितव्यः । तदिदमुक्तम्-'अर्थः सहृदयाहादकारिस्वस्पन्दसुन्दरः' (१६) इति । 'उभावेतालंकार्यो' (२१०) इति च ।