________________
३८२
श्रीशान्तिनाथरचरित्रे
आरक्षकनरास्तस्य दृष्ट्वाऽतिशयमीदृशम् |
विस्मिताः कथयन्ति स्म तमागत्य महीभुजः ॥ ५८ ॥
भयविस्मय संपूर्णः स गत्वा तत्र सत्वरम् । जिनदत्तं गजारूढमानिनाय निजौकसि ॥ ६० ॥ पृष्टोऽथ सर्ववृत्तान्तं जिनस्तस्य न्यवेदयत् । रक्षति स्मारक्षकं च मृत्योर्जीवदयापरः ॥ ६१ ॥ अनुज्ञातस्ततो राज्ञा निजगेहमगादसौ । पित्रादिखजनस्तस्य सर्वोऽपि मुमुदेतराम् ॥ ६२ ॥ आगत्य प्रियमित्रेण जिनदत्तस्य धीमतः । वार्ताचख्ये स्वनन्दिन्या देवताराधनादिका ॥ ६३ ॥ ततस्तुष्टो विशेषेण स तां जिनमतों सतीम् । पर्यणैषीत्सुमुहर्त्ते महोत्सवपुरःसरम् ॥ ६४ ॥ भुक्वा भोगांस्ततः कालं कियन्तमनया सह । प्रवव्राज विरक्तात्मा सुस्थिताचार्यसंनिधौ ॥ ६५ ॥ पालयित्वा चिरं दीक्षां खड्गधारासमामिमौ 1 विपद्यान्ते समाधानपरौ त्रिदिवमीयतुः ॥ ६६ ॥
॥ परद्रव्यापहारविरतौ जिनदत्तकथा ॥ औदारिकं वैक्रियकं द्विविधं मैथुनव्रतम् । तिर्यङमनुष्य भेदेनौदारिकं तु द्विधा भवेत् ॥ ६७ ॥ विज्ञेयं वैक्रियं चैकविधं देवाङ्गना'गतम् ।
एतद्दतं समस्तानां व्रतानामपि दुःसहम् ॥ ६८ ॥ ( १ ) ञदिकम् ।