________________
३०६
श्रीशान्तिनाथचरित्रे
इतरोऽपि ग्रहं प्राप्तो भट्राख्यं पितरं निजम् । प्रोवाच तात ! दीनारा मम हस्तगता इमे ॥ ८४ ॥ क्षेप्सामि त्वामहं नीत्वा निशायां वटकोटरे । प्रात्तं सुबुद्धिना रिक्थमिति वाच्य त्वया प्रगे ॥ ५ ॥ सोऽथाभाषिष्ट रे दुष्टमते ! नैतद्धि सुन्दरम् । उपरोधेन ते पुत्र ! कार्यमेतद् मया परम् ॥ ८६ ॥ चक्रे च स तथा तेन हितीयेऽङ्गि महीपतेः । पुर: पोरजनस्यापि तमर्चित्वा महीरुहम् ॥ ७ ॥ दुष्टबुद्धिरदोऽवादीद ग्रहीतं केन तद्धनम् । सत्यमाख्याहि वृक्षेश ! विवादस्त्वयि तिष्ठते ॥ ८॥ (युग्मम्) वट कोटरसंस्थोऽथ भट्र श्रेष्ठी शशंस सः । हंहो ! सुबुद्धिनोपात्तं तद् द्रव्यमिति बुध्यताम् ॥ ८ ॥ तच्छुत्वा विस्मिताः सर्वे सुबुद्धिं चावदद् नृपः । अपराध्यसि भोस्तावद् निधानं मे समर्पय ॥ ५०० ॥ सोऽथ दध्यो न तरवो जल्पन्तीह कदाचन । इयं हि कूटरचना दुष्ट बड़े विभाज्यते ॥ १ ॥ वटस्य कोटराहाणी यदासौ निर्गता ततः । मन्ये संकेतितोऽनेन प्रक्षिप्तोऽस्त्यत्र कश्चन ॥ २ ॥ जगाद च तवावश्यमर्पणीयं मया धनम । महाराज ! परं किञ्चिहिज्ञप्यमिह विदाते ॥ ३ ॥ ततो विज्ञपयेत्युक्तो राजाऽवोचदसौ पुनः । जरहे तद् मया ट्रव्यं न नीतं हि ग्रह परम् ॥ ४ ॥