________________
पञ्चम: प्रस्तावः।
२८३ गत्वा स्वर्गहे तन्मध्ये गोपयामास 'सोऽथ तत् । आर्पयत् खण्डमेकं च निजमाटवसुः करे ॥ ७५ ॥ तया तदनुमत्या तबिक्रीतं गन्धिकापण । तन्मूल्यद्रव्यमानीय प्रचुरं चास्य दर्शितम् ॥ ७६ ॥ सोऽथ प्रोवाच हे अम्ब ! मा कार्षीः कर्म गर्हितम् । अस्मिंश्च निष्ठिते खण्डे विक्रेतव्यमथाऽपरम् ॥ ७७ ॥ दातव्यं श्रेष्ठिनो गेहभाटकं च यथोचितम्। विधेयं स्वं पराधीनं भवतीभ्यां न कस्यचित् ॥ ७८ ॥ अहं तु स्वेच्छयाऽवश्यं क्रोडिष्याम्यखिलं दिनम्। गेहेऽत्र शयितुं रात्रावागमिष्यामि सर्वदा ॥ ७ ॥ इत्यदित्वा कुमाराणां समीपेऽथ ययावसौ । तैरूचे ह्यस्तनदिने न भ्रात: ! किमिहागत: ? ॥ ८० ॥ शरीरापाटवं किञ्चिन्ममासीदिति सोऽब्रवीत् । । । तेऽवदन् सदनं ते न विद्मोऽभ्येमोऽन्यथाऽन्तिकम् ॥ ८१ ॥ जगाद तमुपाध्यायो वत्स ! ते कतमत् कुलम् ? । कस्तातो जननी का वा जन्मभूमिश्च का ननु ? ॥ ८२ ॥ भणति स्म कुमारोऽदस्तात ! मा पृच्छ सम्मति । प्रस्तावे तत्पुनः सर्व कथयिष्यामि ते ध्रुवम् ॥ ८३ ॥ ज्ञात्वा तद्भावमाकारसंवरं चक्रिरेऽथ ते। कुमारा ददिरे चास्मै भोजनाच्छादनादिकम् ॥ ८४ ॥
(१) अ ध सोप।