________________
३६८
श्री शान्तिनाथचरित्रे
ततस्तेन विनिर्मुक्तैर्मन्त्रौषध्यनिवारितैः । दष्टः श्रेष्ठिसुतो नागैश्चतुर्भिरिमकैः समम् ॥ ११ ॥ पपात च धरापोठे तन्मन्त्रैर्विविधौषधैः । लेभे कृतोपचारोऽपि चेतनां नेषदप्यसौ ॥ १२ ॥ अमु ं जीवापयेत्युक्तस्तह्नन्धुभिरुवाच सः । ततो जीवत्यसौ हंहो ! कुर्याच्चेहुष्करक्रियाम् ॥ १३ ॥ अहमप्यशितोऽभूवममोभिर्दुष्टपन्नगैः ।
एतद्दिषनिरासार्थं करोम्येवंविधां क्रियाम् ॥ १४ ॥ लुञ्चामि 'सकलान् केशान् मुखशीर्षविनिर्गतान् । श्वेतानि सप्रमाणानि वासांसि निवसामि च ॥ १५ ॥ विविधं च तपःकर्म चतुर्थादि करोम्यहम् । भुजेऽतिरुक्षमाहारं तपःपारणकेऽप्यहो ! ॥ १६ ॥ अत्याहारं न गृह्णामि पिबामि विरसं पयः । उदेति तद्दिषं भूयो यद्येवं न करोम्यहम् ॥ १७ ॥ कदाचित् काननस्याऽन्तः कदाचित् पर्वतोपरि । तिष्ठाम्यहं कदाचिच्च शून्यागार श्मशानयोः ॥ १८ ॥ सहे परोषहान् सम्यग् मध्यस्थो द्वेषरागयोः । एवं क्रियां कुर्वतो मे भवेद नो विषविक्रिया ॥ १८ ॥ स्तोकाहारोऽल्पनिद्रश्च यो भवेन्नितभाषकः ।
न केवलममो तस्य वशे स्युस्त्रिदशा अपि ॥ २०॥
( १ ) ङ जञ निखिलान् ।