________________
३६४
श्रीशान्तिनाथचरित्रे
कोऽसौ राजसुत इति गुणधर्मस्य पृच्छतः । 'सोऽवदद् गुणचन्द्राख्यो राजसूनुरिहाऽऽगमत् ॥ ६८ ॥ कयाचिद्योषिता सार्धं सोऽभूद्दार्त्तापरायणः । अहं तदाज्ञयाऽन्यत्र गत्वाऽऽयातोऽस्मि सुन्दर ! ॥ ६८ ॥ तत्पृच्छामि भवन्तं किं गता सा तस्य मन्दिरे ? | गतेत्युक्त्वा कुमारोऽपि पुरुषं विससर्ज तम् ॥ ७० ॥ दध्यौ च नोपकारेण नौजसा हन्त ! योषितः । गृह्यन्ते न कुलं शीलं मय्यादां गणयन्ति च ॥ ७१ ॥ रहो न जायते यावत् क्षणं प्रार्थयिता न च । सतीत्वं तावदेवासां नारीणां नारदोऽब्रवीत् ॥ ७२ ॥ ततस्तां मातुलग्टहे मुक्काऽऽसन्नपुरस्थिते । स समीपे मुनीन्द्राणां तेषामेवाऽभवद् व्रतौ ॥ ७३ ॥ ततश्चग्रं तपः कृत्वा मृत्वा गत्वा सुरालयम् । संप्राप्य च मनुष्यत्वं निर्वाणं समवाप्स्यति ॥ ७४ ॥ मन्दिराद मातुलस्याऽथ सा निर्गत्य कथञ्चन । गुणचन्द्रकुमारस्य प्रिया कनकवत्यभूत् ॥ ७५ ॥ तदन्यगेहिनीदत्तगरलेन विपद्य सा ।
रौद्रध्यानवती प्राप्ता चतुथ्यां नरकावनी ॥ ७६ ॥ उद्दृत्य नरकादेषा भ्रमिष्यति भवं चिरम् । एवं ददाति विषयप्रमादो नृपतेऽसुखम् ॥ ७७ ॥ ॥ इति गुणधर्मकनकवतीकथानकम् ॥
(१) ङ स श्राख्यद् ।
( २ )
ङ ज ञ निःसृत्य |