________________
षष्ठः प्रस्तावः ।
३५८ शरणं च ममाटव्यामस्यां मरणमेव भोः !। विद्यते कोऽपि न नाता तथाऽप्येवं भणाम्य हो ! ॥ १५ ॥ शूरो धौरो महोदारो वैरिदिपघटाहरिः । ममाऽस्तु शरणं नित्यमार्य पुत्रो गुणे कभूः ॥ १६ ॥ जजल्प खेचरः कोऽयमार्य पुत्रो वदाधमे ! । दध्यौ कुमारोऽप्य सुना साधु पृष्टं ममाऽपि यत् ॥ १७ ॥ सन्देहो वर्तते चित्ते ततश्चेटी जगाद सा। वृत: समक्ष भूपानां स्वामिन्या यः स्वयंवरे ॥१८॥ (युग्मम्) येन दृष्टः क्षणार्धन त्वं पाप ! न भवस्य रे ! । गुणधर्मकुमारोऽसौ शरणं विहितो मया ॥ १८ ॥ तरवारिमथोद्यम्य स तां हन्तुं समुद्यतः । विकोशीकृतखङ्गेन कुमारणेति जल्पितः ॥ २० ॥ विश्वस्ते व्याकुले दीने बालवृद्धाबलाजने । प्रहरन्ति यके पापा ध्रुवं ते यान्ति दुर्गतिम् ॥ २१ ॥ स्त्री हत्यापातकं कर्तुमुद्यतस्य तवाऽद्य रे !। . अहमेव भविष्यामि प्रायश्चित्तविधी गुरुः ॥ २२ ॥ स्मित्वा विद्याधरोऽथाख्यत् तत्र गत्वाऽपि यो मया। हन्तव्यः स्वयमेवाऽसो मरणायाययावहो ! ॥ २३ ॥ ततो युवा च्छलं लब्धा तस्य विद्याधरेशितुः । . गुणधर्मकुमारण शिरश्छिन्नं महौजसा ॥ २४ ॥
(१) ज-म्यहम्।