________________
३
श्रीशान्तिनाथचरित्रे
दोलाकारं श्रुतियुगं छत्राकारं च मस्त कम् । स्निग्धा अलिकुलश्यामा: कुन्तलाश्चाति कोमला: ॥ ४ ॥ पद्मगन्धसमः श्वासो वरहेमरुचिस्तनुः । इत्यङ्गलक्षणं यस्य कुरङ्गश्च तथाऽपरम् ॥ ७५ ॥ त्रिभिर्जानै: समायुक्तोऽशेषविज्ञानपारगः । जातः सर्वजनोत्कृष्टः प्रभुः सम्प्राप्तयौवन: ॥ १६ ॥ वत्सराणां सहस्रेषु पञ्चविंशतिषु क्रमात् । गतेषु भगवान् राज्ये जनकेन निवेशितः ॥ ७७ ॥ परिणायितश्चानेकाः सुरूपाः कुलबालिकाः । सकलान्तःपुरीसारा जज्ञे तस्य यशोमती ॥ ७८ ॥ जीवो दृढरथस्याऽथ स सर्वार्थात्परिच्युतः । आगाद्यशोमती कुक्षौ चक्रस्वप्नोपसूचितः ॥ ७ ॥ समये च सुतो जन्ने तस्योत्सवपुरःसरम् । चक्रायुध इति नाम चक्रे स्वप्नानुसारतः ॥ ८ ॥ कलाकलापसम्पूर्ण: क्रमात्मम्प्राप्तयौवनः । सोऽपि पाणि ग्रहं राज कन्यकानां हि कारित: ॥ ८१ ॥ अन्यदायुधशालायां रविबिम्बसमद्युति । तस्योत्पन्नं सहस्रारं चक्ररत्नमनुत्तमम् ॥ ८२ ॥ शस्त्रागारारक्षकेण तदुत्पत्तिनिवेदिता। प्रभोः सोऽथ ममागत्य चक्रेऽस्याष्टाह्निकोत्सवम् ॥ ८३ ॥ तच्छालाया विनिर्गत्य चचालाम्बरवर्मना । तदनु प्राचलच्छान्तिनाथ: सैन्यसमन्वित: ॥ ८४ ॥