________________
षष्ठः प्रस्तावः
३३१
दृष्टा यदचिरादेव्या महास्वप्नाचतुर्दश । तद्भावी त्वत्सुतो राजन् ! षटखण्डभरताधिपः ॥ २० ॥ अथवाऽपि जिनाधीशो विश्वत्रितयवन्दितः । तच्छ्रुत्वा मुदितो राजा मुमुदे तत्प्रियाऽपि सा ॥ २१ ॥ राज्ञा विसृष्टास्ते स्वप्नपाठकाः प्रययुगहम् । बभार गर्भ राज्ञी च रत्नगर्भव सेवधिम् ॥ २२ ॥ अतिस्निग्धातिमधुरं चातिक्षारातितिक्त कम् वर्जयामास साऽऽहारं कषाय कटकं तथा ॥ २३ ॥ महान्तमशिवं तस्मिन्नासीत् पूर्व पुरे तदा। मञ्जातो मान्यदोषेण लोकस्य पलयो महान् ॥ २४ ॥ गन्धहिपस्य गन्धे नान्यदन्तिमदवत् क्षणात् । उपशान्तं तदशिवं प्रभावाद गर्भगप्रभोः ॥ २५ ॥ ततश्च चिन्तितं तातजननीभ्यामदो हृदि । प्रभावोऽयमनीदृक्षसूनोगभगतस्य नो ॥ २६ ॥ इदं हि घटते यस्माट् गर्भवादिने मुदा । वन्दितोऽयं ममागत्य सहावाभ्यां सुरेश्वरैः ॥ २० ॥ गतषु मासेषु नवस्वर्धाष्टदिवसेषु च । ज्येष्ठ कृष्ण त्रयोदश्यां भरणीस्थे निशाकरे ॥ २८ ॥ सूर्यादिषु ग्रहपूच्चपरमोच्च स्थितेषु च । शुभ लग्ने मुहूर्ते च प्रवाते चारु मारुते ॥ २८ ॥ निशीथसमये स्वर्णवर्ण कान्तिसमन्वितम् । मा देवी सुषुवे पुत्रं विश्व वयसुखावहम् ॥ ३० ॥