________________
३२६
श्रीशान्तिनाथचरित्रे
स मृत्वा त्वं महाभाग ! जातोऽसि नृपनन्दनः । दानादिधर्ममाहात्माद्भोगसम्पत्समन्वितः ॥ १८ ॥ कृतं चैश्वर्यतः किञ्चिदन्तरायक कर्म यत् । राज्यभ्रंशादिदुःखं तत् पूर्वे वयसि तेऽभवत् ॥ २० ॥ इत्याकर्ण्य समुत्पन्नजातिस्मृतिरसौ नृपः । विशेष पुण्य लाभार्थी जातो दोक्षासमुत्सुकः ॥ २१ ॥ संस्थाप्य तनयं राज्ये स श्रीशेखरनामकम् । चतसृभिरपि भाय्याभिः समं जज्ञे महाव्रती ॥ २२ ॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः मृत्वा समाधिना चान्ते सुरलोकमियाय सः ॥ २३ ॥ देवलोकात् परिच्युत्य मनुष्यत्वमवाप्य च । क्षपयित्वाऽखिलं कर्म मुक्तिसौख्यं स लप्सते ॥ २४ ॥ स एष कथितो राजन् ! यः पूर्वं सूचितो मया । शूरो राजा शुभभोगी विपत्कालेऽपि योऽभवत् ॥ २५ ॥
॥ इति वत्सराजकथा ॥
जातव्रतपरीणामो राजा मेघरथस्ततः ।
जिनं नत्वा ग्टहं गत्वा प्रोचे दृढरथं प्रति ॥ २६ ॥ बन्धो ! राज्यं गृहाण त्वं प्रतिपद्ये त्वहं व्रतम् । सोऽवादीदहमप्येवं करिष्यामि त्वया सह ॥ २७ ॥ तेनात्मतनयो राज्ये मेघसेनो निवेशितः ।
युवराजत्वे च रथसेनो दृढरथात्मजः ॥ २८ ॥