________________
३२४
श्रीशान्तिनाथचरित्रे
शीघ्रमेव समागत्य प्रभुत्वं त्वं कुरुष्व नः । अन्यथाऽन्यं श्रयिष्यामः स्वामिनं न्याय निष्ठितम् ॥ ८॥ श्रुत्वे ति सर्वसामग्रमा वत्सराजो महीपतिः । प्रैषीद दूतं तत्र गत्वा देवराजस्य भूपतेः ॥ ८०० ॥ ज्ञात्वा तमागतं सोऽपि सन्नह्य निरगात् पुरात् । विरक्तस्तत्परीवारलोकश्चाप्यन्वगान्न तम् ॥ १ ॥ वत्सराज बलीयांसं मत्वा स्वांश्च तथाविधान् । प्रणश्य स ययौ काऽपि नान्यायविजयो नृणाम् ॥ २ ॥ लोकः प्रमुदितः सोऽय महोत्सव पुरस्सरम् । पुरे प्रवेशयामास वत्सराज नरेश्वरम् ॥ ३ ॥ एवं राज्य हयस्याऽपि स्वामित्वमनुपालयन् । सोऽन्यदोद्यानपालेन विज्ञप्तो नतिपूर्वकम् ॥ ४ ॥ स्वामिन् ! संवयंसे प्रोत्या यतोऽद्य नगरे तव । चतुर्ज्ञानधरः ‘सूरिरागत्य समवासरत् ॥ ५ ॥ गत्वा नत्वा मुनीन्द्रं तं यथास्थानं निविश्य च । स पपो देशनानीरं गुरुवक्त्रादि निर्गतम् ॥ ६ ॥ यतिश्रावकयोधर्ममाकर्ण्य गुरुणोदितम् । थाइधर्म प्रपद्यासौ पुनरागानिजं यहम् ॥ ७ ॥ मासकल्पं विधायाऽत्र तूरिरन्यत्र सोऽगमत् । वत्सराजोऽप्यने कानि जिनचेत्यान्य कारयत् ॥ ८ ॥
(१) ङ ञ -निष्ठुरम् । ज -वर्तिनम् ।