________________
३१६
श्रीशान्तिनाथचरित्रे
एवं विचिन्त्य भणितास्तेनेदं निजवल्लभाः । प्रकटीभूय भूभर्त्तुगौरवं कुरुताऽनघाः ! ॥ १६ ॥ यद्दर्शयति नो यस्य हितं नाऽऽर्यसुतस्य तत् । एवं मिथो वदन्त्यस्तास्तदादेशं वितेनिरे ॥ १७ ॥ रत्नचूला-स्वर्णचूला-श्रीदत्तानां मनोहरम् । रूपं दृष्ट्वा महीपालो जज्ञे कामवशंवदः ॥ १८ ॥ दध्यौ च धन्य एवाऽयं यस्यैताः प्रवरा गृहाः । विपत्रितयस्याऽपि वर्णिनीवर्णिका इव ॥ १८ ॥ भोजनोद्धं सुताम्बूलवस्त्राद्यैः परिपूजितः । भूपतिः सपरीवारोऽप्याययो निजवेश्मनि ॥ २० ॥
तत्राऽप्यरतिमापन्नस्तासां सङ्गमलालसः ।
स्वकार्यसाधनोपायं सोऽपृच्छद मन्त्रिमण्डलम् ॥ २१ ॥ आलोच्य मन्त्रिणोऽप्येवं शशंसुः पृथिवीपतेः । जीवत्यदो वत्सराजे कार्यं राजन् ! न सेत्स्यति ॥ २२ ॥ ततः केनाऽप्युपायेन वत्सोऽयं देव ! हन्यते । सोऽब्रवीदिति कृत्वाऽपि कार्यं मम समीहितम् ॥ २३ ॥ अन्येद्युर्मारणार्थं स सिंहस्य जगतीपतेः ।
स्थाने निवेशितोऽमात्यैर्महाराजस्य संसदि ॥ २४ ॥ कुमारो यावदास्थानादभीतः स निरोयिवान् । अमुं व्यापादयेत्युक्तस्तावत्सिंहो नियोगिभिः ॥ २५ ॥ सिंहोऽपि निजगादैनं सिंहद्वाराद्विनिर्गतः । प्रतिष्टष्टोपविष्टोऽसि किमरे ! मम विष्टरे ? ॥ २६ ॥