________________
चतुर्थः प्रस्तावः ।
तं दृष्ट्वा कविदित्यूचे धन्योऽसौ श्रेष्ठिनन्दनः
य एवंविधमामग्रग्रा स्वेच्छया विलमत्यहो ॥ १८ ॥ मोऽन्येन भणितो मुग्ध ! किमस्य त्वं प्रशंममि । यः पित्रोपार्जितां लक्ष्मीं भुङ्क्ते कापुरुषक्रियः ॥ २८ ॥ प्रशंसायाः म योग्योऽव यो द्रव्योपार्जने रतः । त्यागभोगपरो यश्थ लोकमध्ये विजृम्भते ॥ २० ॥४ तच्छ्रुत्वा श्रेष्ठपुत्रोऽमी चिन्तयामाम चेतमि । अमुनेर्ष्यापरेणापि जल्पितं मे हितं वचः ॥ २१ ॥ तत्तो देशान्तरे गत्वा ममुपार्ज्य धनं घनम् | तत् सर्वं माधयिष्यामि यदनेन विभाषितम् ॥ २२ ॥ स्ववितर्कोऽय मित्राणामग्रे तेन निवेदितः । प्रशंसितच तैस्तस्याभिप्रायः प्रियवादिभिः ॥ २३ ॥ लगित्वा पादयोः मोऽय जगाद जनकं मया । अर्थार्जनकृते गम्यं परदेशे त्वदाज्ञया ॥ २४ ॥ वज्राऽऽहत इव श्रेष्ठो दुःखितस्तमभाषत । अर्थस्ते विद्यते वत्म ! त्यागभोगक्षमो बहुः ॥ २५ ॥ तेनैव माधनीयानि सर्वकार्याणि निश्चितम् । प्राणसन्देहकरणे गम्यं देशान्तरे न हि ॥ २६ ॥ पुनरप्यवदत् पुत्रस्तात ! लक्ष्मीस्त्वयाऽर्जिता । जननीव न मे भोक्तुं युज्यते शैशवाहते ॥ २७ ॥ अत्याग्रहपरं ज्ञात्वा विससर्ज पिताऽपि तम् । ततोऽसौ यानसामग्रोमखिलां प्रगुणां व्यधात् ॥ २८ ॥
१७८