________________
श्रीशान्तिनाथचरित्रे
ततः खङ्गं समाकृष्य दीपच्छायान्तरस्थितः । उपर्यधो वीक्ष्यमाणो यावदस्थादसौ तदा ॥ ८८ ॥ चन्द्रोदयस्य विवरेणाहिं दृष्ट्वा प्रलम्बितम् । अभीतो जग्रहे शीघ्रं करेणैकेन तन्मुखम् ॥ ८० ॥ (युग्मम्) विखण्डं विदधे चास्य देहमन्येन सोऽसिना। एकत्र गोपयामास तत् खण्डहयमप्यसौ ॥ १ ॥ दृष्ट्वाऽथ पतितान् रक्तबिन्दून् देव्या उरःस्थले । सोऽपजते स्वहस्तेन विषसंक्रान्तिभोरुकः ॥ २ ॥ अत्रान्तरे पश्यति स्म जातनिद्राक्षयो नृपः । करं व्यापारयन्तं तं देव्या वक्षोरुहोपरि ॥ ३ ॥ ततः कोपपरीताङ्गो दध्यौ किं मारयाम्यहम् । अथवा सबलो नैष शक्यो मारयितुं मया ॥ ८४ ॥ अमुं केनाप्युपायेन मारयिष्यामि निश्चितम् । इति सञ्चित्य तस्थौ स सनिद्राऽवस्थया 'तया ॥ २५ ॥ वादितोऽथाऽऽदिमो यामो रजन्याः घटिकायहे। वत्सराजं विमुच्याऽऽत्मस्थाने सोऽगाविजाऽऽलयम् ॥ २६ ॥ जजल्प भूपतिः कोऽत्र स्थाने प्राहारिकोऽस्ति भोः !। सोऽवदद् वत्सराजोऽहं तिष्ठामि तव सेवकः ॥ ७॥
(१) ख च ठ तथा । (२) द वादितेऽथादिमे यामे। ख घ च ड वादितः प्रथमो यामो।
छ झ वादिते प्रथमे यामे ।