________________
१७२
श्रीशान्तिनाथचरित्र
बुद्ध्या विचारयेद् यस्तु वैद्यवाक्यं, पिबत्यसौ। बलपुष्टिकरं क्षौरं गवादीनां मनोहरम् ॥ ४८ धर्मे प्रवृत्तिः कर्तव्येति वाक्ये ऽप्यविचारिते। करोत्यज्ञानतो जीव: प्रवृत्तिं धनुरादिषु ॥ ५० ॥ धर्मे तस्मादहिंसादिलक्षणे जिनभाषिते । विदधीत प्रवृत्तिं भोः ! शिवं सौख्यं यदीच्छथ ॥ ५१ ॥ अविचार्य धिया कायं कुर्वतामिह देहिनाम् । 'दोषा भवन्त्यमृताम्रनिपात्यादिनरेन्द्रवत् ॥ ५२ ॥ पप्रच्छवमथी सर्वा पर्षत् कौतूहलाकुला । अमृताम्रनिपात्यादिनृपाः के भगवनिमे ॥ ५३ ॥ दोषो जन्ने कथं तेषामविचारितकर्मणाम् । इति सर्वसदःप्रोक्तः क्षेमङ्गरजिनोऽवदत् ॥ ५४ । अस्त्यवन्तिजनपदे प्रसिद्धोज्जयिनी पुरी। नगरी धनदस्येवावतोणेह कुतूहलात् ॥ ५५ ॥ जितशत्रमहोपाल: पालयामास तां पुरीम् । यो वैरिवारनारीणां वैधव्यव्रतदो गुरुः ॥ ५६ ॥ तस्याग्रमहिषी जज्ञे विजयश्रीः सुलोचना। भुञ्जानस्तामिलां चैव राजा राज्यमपालयत् ॥ ५ ॥ आस्थानमण्डपाऽऽसोनमन्यदा तं महीपतिम् । सुविज्ञातङ्गिताकारः प्रतीहारो व्यजिज्ञपत् ॥ ५८ ।।
(१) ख घ छ भ दोषो भवत्यम-।