________________
श्रीशान्तिनाथचरित्र
अशीतिपूर्वलक्षाणि चतुर्भिरधिकान्यथ । आयुः प्रपूयं सोऽनन्तवीर्यो विष्णुर्व्यपद्यत ॥ ११ ॥ संवत्सरद्विचत्वारिंशत्सहस्रायुरादिमे । खभे नारकिको जन्जे 'स निकाचितकर्मभिः ॥ १२ ॥ तहियोगऽपरः शोकमस्तोकं विदधे ततः । नौतिधर्मविदग्धेन मन्त्रिणेवमभाणि सः ॥ १३ ॥ यदि मोहपिशाचेन छल्यन्ते त्वादृशा अपि । तदा किमपरं धौर ! धीरता संश्रयत्वियम् ॥ १४ ॥ इति तहचसा किञ्चिद् गतशोको बभूव सः। . अन्यदा गणभृत् तत्राऽऽययो नाम्ना यशोधरः ॥ १५ ॥ विज्ञायाऽऽगमनं तस्य वन्दनार्थमगादसौ। भक्त्या षोडशभिर्भूपसहस्रैः परिवारितः ॥ १६ ॥ नत्वा गणधरेन्द्रं तं निषस्मोऽसौ यथास्थिति । कृताञ्जलिपुटो धर्मदेशनामशृणोदिति ॥ १७ ॥ शोकोऽभीष्टवियोगेन जायते दारुणो जने । स सद्भिः परिहर्तव्यस्तत्स्वरूपमिदं यतः ॥ १८ ॥ नामान्तर: पिशाचोऽयं पाप्मा रूपान्तरस्तथा । तारुण्यं तमसो होष विषस्यैष विशेषतः ॥ १८ ॥
(१) क ण द स्खनिका- । ङ ऽसौ। (२) ङ तदा कमपरं विश्वे धीरा यं संश्रयन्ति हि। (३) च ज विषयस्य ।