________________
श्रीशान्तिनाथचरित्रे
ताभ्यां सा भणिता चैवं 'संप्राप्य सुभगापुरीम् । स्वयंप्रभजिनोपान्ते भूयास्त्वं व्रतिनी शुभे ! ॥ १ ॥ तं तपोधनमानम्य विमानमधिरुह्य च । तो तया सहितौ शीघ्रं संप्राप्तौ नगरों निजाम् ॥ ८२ ॥ स्वयंप्रभजिनोऽन्येयुः सुरासुरनराचितः । आगत्य समवासार्षीत् सुभगायां पुरि प्रभुः ॥ १३ ॥ गत्वा भक्त्या ववन्दाते तमिमी बलकेशवो। धर्म शुश्रुवतुः साई तया च कनकश्रिया ॥ ४ ॥ अग्रेऽपि कनकधीः सा विषयेभ्यो विरक्तधीः । जैनों वाचं समाकर्ण्य विशेषेणाभवत् तदा ॥ ८५ ॥ ततश्च हरिसीरिभ्यां कृतनिष्क्रमणोत्सवा । सा प्रवव्राज तेपे चैकावल्यादि तपो महत् ॥ ८६ ॥ शुक्लध्यानानलप्लष्टघातिकर्मचतुष्टया।। उत्पाद्य केवलज्ञानं संप्राप्ता परमं पदम् ॥ ७ ॥ इतोऽपराजितस्थाऽऽसीद् विरता नाम गहिनी। तदङ्गसंभवा पुत्त्री जाता सुमतिसंजिका ॥ १८ ॥ जीवाजीवाऽऽदितत्त्वज्ञा तपःकर्मसमुद्यता । आबाल्यादपि सा जज्ञे कुशला जिनशासने ॥ ८ ॥ चतुर्थपारणेऽन्येास्तस्या गेहे समाययो। शान्तो दान्तः क्षमायुक्तो वरदत्तो महामुनिः ॥ ७०० ॥
(१) ख घ च संभाव्य । (२) घ च ज झ जत्ने ।