________________
१५२
श्रीशान्तिनाथचरित्रे
धर्मलाभाऽऽशिषं दत्त्वा स मुनिर्धर्मदेशनाम् ।
विदधे प्रतिबोधार्थं श्रीदत्ताया जनस्य च ॥ ८२ ॥
तद्यथा
धर्मादर्थस्तथा कामो धर्मान्मोक्षोऽपि जायते । चतुवर्गे ततस्तस्य मुख्यता परिकीर्तिता ॥ ८३ ॥ अयमर्थोऽपरोऽनर्थ इति निश्चयशालिना । भावनीया अस्थिमज्जा धर्मेणैव विवेकिना ॥ ८४ ॥ श्रीदत्ता स्माह भगवन्नस्थिमज्जाऽधिवासना । अमूर्तेन हि धर्मेण कथङ्कारं विधीयते ॥ ८५ ॥ ततोऽसौ सुव्रतः साधुस्तस्याः पौरजनस्य च । दृष्टान्तं कथयामासेप्सितार्थस्य निवेदकम् ॥ ८६ ॥ आसोदुज्जयिनोपुय्यां जितशत्रुर्महीपतिः । तप्रिया धारिणी नाम्नो नरसिंहश्च तत्सुतः ॥ ८७ ॥ कलाकलापसम्पूर्णः सोऽथ संप्राप्तयौवनः । रम्या द्वात्रिंशतं कन्यास्तातेन परिणायितः ॥ ८८ ॥ शरत्कालेऽन्यदा तत्र पुरेऽरण्यात् समाययौ । करी कश्चित् मदोन्मत्तः शङ्खश्वेतो नगोन्नतः ॥ ६८ ॥ कृतान्तमिव तं क्रुद्धं जनविप्लवकारिणम् ।
करिणं कथयामास पुमान् कोऽपि महोपतेः ॥ ६०० ॥ तेनाथ प्रेषितं सैन्यं दैन्यं भेजे पुरोऽस्य तत् ।
स्वयमेव महीपालश्चचाल सबलस्ततः ॥ १ ॥