________________
१४८
श्रीशान्तिनाथचरित्रे
ततश्चानन्तवीर्यस्योपरि पुष्पभरोऽम्बरात् ।
विमुक्तो व्यन्तरैरेवं प्रजल्पद्भिः प्रमोदतः ॥ ५५ ॥ संजातो वासुदेवोऽयं विजयाईपतिर्बली । द्वितीयो बलदेवश्च तच्चिरं जयतामिमौ ॥ ५६ ॥ विद्याधरभटास्तेऽथानन्तवीर्यं समाश्रिताः ।
कृतप्रणामास्तेनापि सर्वे संमानिता इमे ॥ ५७ ॥ ततोऽपराजितानन्तवीर्यौ विद्याधरान्वितौ । रम्यं विमानमारुढौ चेलतुः खपुरीं प्रति ॥ ५८ ॥ कनकाद्रावथ प्राप्तौ प्रोक्तौ विद्याधरेरिमौ । सन्त्यत्र जिनचैत्यानि युज्यन्ते तानि वन्दितुम् ॥ ५८ ॥ ततोऽवतीय्ये चैत्यानि वन्दित्वा तानि भक्तितः । तत्रावलोकितस्ताभ्यां मुनिः कोर्तिधराभिधः ॥ ६० ॥ वर्षोपवासतपसोत्पन्नकेवलचक्षुषः ।
तस्यर्षेश्चरणावेतौ नेमतुः परया मुदा ॥ ६१ ॥ उपविश्य धरापीठे हर्षोदञ्चितविग्रहौ । इति शुश्रुवतु'चास्य विशुद्धां धर्मदेशनाम् ॥ ६२ ॥
तद्यथा
मिथ्यात्वमविरतिश्च कषाया दुःखदायिनः । प्रमादा दुष्टयोगाश्च पञ्चैते बन्धकारणम् ॥ ६३ ॥ यदु देवत्वमदेवेषु गुरुत्वमगुरौ तथा । तत्त्वे तत्त्वबुद्धिय तन्मिथ्यात्वं प्रकीर्त्तितम् ॥ ६४ ॥
(१) घ च ज ठ - श्वोभौ ।