________________
१३८
श्रीशान्तिनाथचरित्रे
तत्कूटमोहितः सोऽथ तत् सत्यमिति चिन्तयन् । दृष्ट्याऽऽलोकयते स्मास्या दुर्गतेरिव संमुखम् ॥ ७४ ॥ यक्षेणोल्लालयित्वाऽथ क्षिप्तः सोऽथ स्वपृष्ठतः । तया नौरमसंप्राप्तस्त्रिशूलेन प्रतीच्छितः ॥ ७५ ॥ लभस्व पाप ! रे सद्यो मम वञ्चनजं फलम् । इत्युदित्वा च खड्न खण्डयित्वा निपातितः ॥ ७६ ॥ ततश्च कूटकपटरचनानाटिका नटी। प्रत्याययितुमारेभे चाटुभिर्जिनपालितम् ॥ ७७ ॥ यक्षेण भणितः सोऽथ यद्यस्या वचने रुचिः । भविष्यति गतिस्तत्ते कनिष्ठस्येव निश्चितम् ॥ ७८ ॥ जातो निश्चलचित्तोऽसौ तं कूटमवधूय तत् । क्षेमेण सह यक्षेण प्राप्तः चम्पापुरी निजाम् ॥ ७८ ॥ वलिता व्यन्तरी साऽथ यक्षोऽपि वलितः सकः । क्षामितः कृतकृत्येन श्रेष्ठिपुत्रेण भक्तितः ॥ ८० ॥ गेहे गत्वा स्वलोकस्य मिलितो जिनपालितः । कथयामास तइन्धुमरणं शोकसङ्कुलम् ॥ ८१ ॥ मृतकार्याणि तस्याऽथ माकन्दी वजनान्वितः । विधाय पालयामास टहवासं सुतश्च सः ॥ ८२ ॥ अन्यदा समवासार्षीत् तत्र वीरजिनेश्वरः । तं नन्तं जग्मतुश्चैती माकन्दिजिनपालितौ ॥ ८३ ॥
(१) ङ च छ शोक संकुलः।