________________
१३४
श्रीशान्तिनाथचरित्रे
कथञ्चिहिजनवाहां यद्यत्रोत्पद्यतेऽरतिः । पूर्व दिग्वनखण्डे तहन्तव्यमपशङ्गितम् ॥ ३४ ॥ सर्वदाऽवस्थितौ तत्र ग्रीष्मप्राइटसुसंन्निती। उभातू विनोदाय युवयोरपि भाविनी ॥ ३५ ॥ न चेत् तत्राऽपि वां चित्तं रमेत कथमप्यहो । तदोत्तरवनखण्डे गन्तव्यं हि ममाज्ञया ॥ ३६ ॥ तत्राप्यवस्थितौ नित्यं शरद्धेमन्तनामको। . भविष्थत ऋतू नाम स्वाधीनौ युवयोरपि ॥ ३० ॥ तत्राऽपि नो रतिश्चेदां तत्प्रतीचौवनान्तरे । गम्यं तनाऽपि शिशिरवसन्ताख्यातू स्थिरौ ॥ ३८ ॥ ततः प्रासाद एवाऽत्राऽऽगम्यमौत्सुक्यसम्भवे । दक्षिणस्या वनेऽमुष्मिन् गन्तव्यं न कथञ्चन ॥ ३८ ॥ यतस्तत्रासितच्छायो भुग्नकायो दिजिह्वकः । अस्ति दृष्टीविषः सर्पो वेणीभूतोऽवनिस्त्रियः ॥ ४० ॥ एवमुक्त्वा ययावेषा माकन्दितनयो च तो। वनखण्डनये तस्मिन् गच्छतः स्म पुरोदिते ॥ ४१ ॥ अथाचिन्तयतां चैवं दक्षिणस्या दिशो वने । पौन:पुन्येन गच्छन्ती तयाऽऽवां वारिती कथम् ॥ ४२ ॥ चिन्तयित्वेति साशङ्को 'यावत्तौ तत्र गच्छतः । प्रविवेश तयोस्तावद् घ्राणे गन्धः सुदुःसहः ॥ ४३ ॥
(१) ग यावत्तौ दक्षिणां गतौ। ञ द यावत्तवे यतस्तकौ।