________________
श्रीशान्तिनाथचरित्र
क्षणमेकमहं पद्भ्यां यास्यामीति वदन्नसौ । तदर्थमर्थिती भूयः सीमां प्राप्तस्तया भृशम् ॥ ५८ ॥ मित्रः प्रोवाच हे सुधु ! नात्मायं मयका त्वकम् ।
आनीता किं तु मित्रस्यामरदत्तस्य हेतवे ॥ ५८ ॥ मित्रव्यतिकरं चास्याः कथयित्वा न्यवेदयत् । न मे युक्तं त्वया साईमेकत्र शयनासनम् ॥ ६० ॥ तच्छ्रुत्वा राजपुत्री सा दध्यो विस्मितमानसा । अहो अस्य महापुंसश्चरित्रं भुवनोत्तरम् ॥ ६१ ॥ पिता माता सखा भ्राता यदर्थ वञ्चात नरैः । प्राप्ताऽपि कामिनी साऽहं येन नो कामिता सता ॥ ६२ ॥ मोऽपि सहते क्लेशं स्वार्थसिद्धि परायणः । परार्थसाधने कोऽपि विरलोऽङ्गीकरोति तम् ॥ ६३ ॥ चेतमा चिन्तयत्येवं स्त्रीरत्नं रत्नमञ्जरी। पार्श्वे पाटलिपुत्रस्य निन्ये मित्रेण सा शनैः ॥ ६४ ॥ इतश्चामरदत्तोऽसो पूर्णे मासद्दयावधी । अनागच्छति मित्रे च रत्नसारमदोऽवदत् ॥ ६५ ॥ तात ! मे नाययौ मित्रं काष्ठः कारय तच्चिताम् । येन तद्दःखदग्धोऽहं प्रवक्ष्यामि हुताशने ॥ ६६ ॥ तच्छ्रुत्वाऽधिकदुःखात: स श्रेष्ठी पौरसंयुतः । क्रन्दन्नत्याग्रहेणास्य रचयामास तां चिताम् ॥ ६७ ॥
(१) ड ण द -चिन्तयन्त्ये-। (२) ज ण द पूर्ण मासहयावधिः ।