________________
११०
श्रीशान्तिनाथचरित्र
प्राकारोल्लसनं तं च कुर्वन्तं वीक्ष्य कुट्टिनी। महावीरोऽयमित्यन्तनिवृत्ता स्वग्रहं ययौ ॥ २० ॥ मित्रानन्दोऽप्यथाऽऽरूढो राजपुत्त्रया निकेतनम्।। सुष्वाप साऽपि तहीरचर्यामालोक्य कैतवात् ॥ १ ॥ कटकं राजनामाझं स तहस्तादुपाददे । चक्रे क्षुरिकया वीरो दक्षिणोरी च लक्षणम् ॥ २ ॥ तेनैव विधिना सोऽथ निर्गत्य नृपमन्दिरात् । सुप्तो देवकुले क्वापि दध्यौ चैवं नृपात्मजा ॥ ३ ॥ न सामान्यः पुमानेष चरित्रेणामुना ध्रुवम् । तन्मया न कृतं साधु नायं सम्भाषितो यतः ॥ ४ ॥ अनया चिन्तया रात्रि गमयित्वा निशात्यये । निद्रामवाप सा बाला स तु वीरनरस्तदा ॥ ५ ॥ उत्थाय हारदेशे च गत्वा भूपतिवेश्मनः । अहो अन्याय इत्युच्चैः पूत्करोति स्म बुद्धिमान् ॥ ६ ॥ राजादिष्टप्रतीहाराकारितो नृपसनिधी। गत्वा नत्वा नृपं मित्रानन्दोऽथैवं व्यजिज्ञपत् ॥ ७॥ प्रचण्डशासने देव ! त्वयि सत्यपि भूपती। वणिजा परिभूतोऽहमोखरेण विदेशगः ॥ ८॥ राज्ञा च 'कयमित्युक्तं कथयामास तस्य सः । द्रव्यलाभावसानां तां शबरक्षणजां कथाम् ॥ ८ ॥
(१) ख घ च ज किमितीत्युक्तः । ग ड ट द कथमित्युक्तः ।