________________
१०४
श्रीशान्तिनाथचरित्रे
विधाय भोजनं स्वेच्छां पूरयेस्तामपि क्षणे ॥ ३५॥ एवमुक्तेऽपि तेनास्मिंस्तस्याः पार्श्वममुञ्चति । भूरिमन्युभराक्रान्तो मित्रानन्दोऽरुदद्भृशम् ॥ ३६ ॥ रुरोदामरदत्तोऽपि स्थानं तत् तु मुमोच न ।
तावत्तत्रायो श्रेष्ठी प्रासादस्यास्य कारकः ॥ ३७ ॥ रत्नसाराभिधानेन तेनेदं भणिताविमौ ।
भद्रौ युवां युवतिवत् किं नाम रुदियो वृथा ॥ ३८ ॥ ताततुल्यस्य तस्याग्रे कथयित्वाऽऽदितः कथाम् । मित्रानन्देन मित्रस्य चेष्टितं तन्निवेदितम् ॥ ३८ ॥ तेनाथ बोधितोऽप्येष रागं पाञ्चालिकागतम् । न यावद्दिजहौ तावत् स सखेदमचिन्तयत् ॥ ४० ॥ अप्यश्मनिर्मितं पुंसां यासां रूपं मनो हरेत् । वनिता विश्वमोहाय मन्ये ता वेधसा कृताः ॥ ४१ ॥ तावन्मौनी यतिर्ज्ञानी सुतपस्वी जितेन्द्रियः । यावन्न योषितां दृष्टिगोचरं याति पूरुषः ॥ ४२ ॥ एवं चिन्तापरः सोऽथ मित्रेण भणितं पुनः । वातास्मिन् सङ्कटे कार्ये क उपायो भविष्यति ॥ ४३ ॥ तस्मिंश्च कञ्चनोपायमपश्यति वणिग्वरे ।
मित्रानन्देन तमभिप्रोचे बुद्धिमता पुनः ॥ ४४ ॥ तं चेत् सूत्रकृतं 'वेत्सि येनैषाऽकारि पुत्रिका । तदिच्छापूरणोपायमस्य तात ! करोम्यहम् ॥ ४५ ॥
( १ ) ख ग घ च द वेद्मि ।