________________
१८२
श्रीशान्तिनाथचरित्रे
व्यग्रत्वाद् भूपतेः सोऽथोपविश्यास्थान नृपस्तथा। विसृज्याऽऽस्थानमभ्यङ्गनाने चक्रे श्रमापहे ॥ ५२ ॥ देवपूजनवेलायामथ तस्य महीपतेः । सपुष्पबटुरागत्य प्रसूनानि समार्पयत् ॥ ५३ ॥ कस्त्वं भट्रेति राज्ञोक्तः सोऽवोचट् यज्ञदत्तसूः । अहं शुभकरो नाम्ना विप्रोऽरिष्टपुरस्थितिः ॥ ५४ ॥ निजगेहाद विनिर्गत्य देशदर्शनकौतुको। नमनिह समायातः समीप ते महीपते ! ॥ ५५ ॥ प्रकृत्या विनयी सोऽथ स्वसमीप महीभुजा। स्थापितस्तत्र निश्चिन्तस्तस्थौ चापि शुभकरः ॥ ५६ ॥ शूरस्त्यागी प्रियाभाषी कृतज्ञो दृढसौहृदः । विज्ञानी स्वामिभक्तश्च स सर्वगुणमन्दिरम् ॥ ५७ ॥ 'अतिगौरवतो राजा शुद्धान्तादिष्ववारितः । सर्वत्राऽस्वलितो जज्ञे गुणवान् स शुभकरः ॥ ५८ ॥ अन्यदा नगरस्याऽस्य समीपे हरिराययो। व्याध एकः समागत्य तमाचख्यौ महीपतिम् ॥ ५८ ॥ सेनया चतुरङ्गिण्या संयुक्तः सशुभकरः । वधार्थ मृगराजस्य निर्ययो नगराद् नृपः ॥ ६ ॥ ज्ञात्वाऽथ व्याधवचनात् तं सिंहं वनमध्यगम् । वनार्वाक् स्थापयामास सैनिकानखिलानपः ॥ ६१ ॥
(१) ख डट नपस्तदा ।
(२) घ, च भूभुजा। (३) ख घ दूतो गौरवितो। ज ट अतिगौरवितो।