SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ८ ६ श्रीशान्तिनाथचरित्र अपरेधुर्मुनिहन्दं दृष्ट्वा मलमलीमसम् । स एवं चिन्तयामास धिगहो मलिनाविमौ ॥ २२ ॥ यद्येते निर्मलं वेषमकरिष्यन्महर्षयः ।। ततोऽभविष्यत् किं नाम जैनधर्मस्य दूषणम् ॥ २३ ॥ अथवा हा मया दुष्टं चिन्तितं मुनिपुङ्गवाः । भवन्त्येवंविधा यस्मात्संयमेनैव निर्मलाः ॥ २४ ॥ एवं च शुभभावेन शुभं कर्म समार्जयत् । सोऽशुभेनाशुभं कर्माजयति स्मान्तराऽन्तरा ॥ २५ ॥ आयुःक्षये विपद्याभूत्स देवो भुवनाधिपः । ततश्चयत्वा समुत्पन्नः स त्वं धनदनामकः ॥ २६ ॥ कृत्वा कृत्वाऽन्तरा धर्मो यत्त्वया दूषितस्तदा । सुखानि दुःखमिश्राणि लब्धानौह ततः स्फुटम् ॥ २७ ॥ तच्छ्रुत्वा मूच्छिंतः पृथ्वा पपात धनदः क्षणम् । जातिस्मृत्या निजं पूर्वभवभावं ददर्श च ॥ २८ ॥ उवाच च प्रभो सत्यं यद् युष्माभिः प्ररूपितम् । ततो बन्धूननुज्ञाप्य ग्रहीष्याम्यनगारताम् ॥ २८ ॥ इत्युदित्वा ग्टहे गत्वा पितरावेवमूचिवान् । हे अंब तात मां दीक्षाकृते विसृजतं युवाम् ॥ ३० ॥ ताभ्यां निवार्यमाणोऽपि न यावहिरराम सः । तावत्ता चतुर्दीक्षामादास्यावस्त्वया सह ॥ ३१ ॥ राज्ञः पाखें ययौ सोऽथ स्वाभिप्रायं शसंस च । सोऽप्यूचेऽहमपि समं ग्रहीष्यामि व्रतं त्वया ॥ ३२ ॥
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy