SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ८४ श्रीशान्तिनाथचरित्रे जीवानामिह संसार विना धर्मेण नो सुखम् । त्य त्वा प्रमादं भो भव्यास्त इमें कुरुतादरम् ॥ २ ॥ कुर्वन् कलशयेत् धर्म मनसाऽप्यन्तरा हि यः । महणाक इवाप्नोति स सौख्यं दुःख मिश्रितम् ॥ ३ ॥ पप्रच्छ धनदः कोऽसो भगवन्महणाभिधः । कुर्वताऽपि कथं तेन धर्मो नाम कलङ्गितः ॥ ४ ॥ मूरिः प्रोचेऽत्र भरते पुरे रत्न पुराभिधे। शुभदत्ताभिधः श्रेष्ठी वसति स्म महाधनः ॥ ५ ॥ भार्या वसुन्धरा तस्य महणाकश्च तत्सुतः । सोमश्री म तस्यापि बभूव सहचारिणी ॥ ६ ॥ अन्यदा रथमारुह्योद्यानिकायां ययावसौ । उद्याने मण्डपस्तत्र 'विस्तीर्णश्च विनिर्मितः ॥ ७ ॥ खाद्य-भोज्य ले ह्य-पय-भेदैस्तत्र चतुर्विधम् । बुभुजे स वराहारं मिलैः सह यदृच्छया ॥ ८ ॥ ततस्ताम्बलमादाय पञ्चसौगन्धिकं वरम् । क्षणं दृष्टिकतानन्दं प्रेक्ष्य प्रेक्षणकं तथा ॥ ८ ॥ बहु पाद पसङ्कीर्ण फलपुष्पर्धि बन्धुरम् । उद्यानमोक्षमाणोऽसौ ददर्शकं महामुनिम् ॥ १० ॥(युग्मम्) स मित्रप्रेरितो गत्वा ववन्दे तं तपोधनम् । सोऽपि ध्यानं विमुच्चास्मै धर्मलाभाशिषं ददौ ॥ ११ ॥ (१) ग घ ट ड सुविस्तीर्ण व निर्मितः ।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy