________________
द्वितीयः प्रस्तावः ।
इत्यादि सकलां वार्तांीं कथयित्वाऽब्रवीन्नृपम् । देवाद्यापि प्रकाश्योऽहं नावश्यं कस्यचिद्यतः ॥ २८ ॥ मम वित्तकलत्त्रापहारकार्यपरोऽपि चेत् । सार्थवाह इहायाति ततो भव्यं भवेाभो ॥ ३० ॥ सार्थेशो देवदत्तोऽपि तत्त्रान्येद्युः समाययौ । सार्द्धं तिलक सुन्दर्या स आगाच्च नृपान्तिकम् ॥ ३१ ॥ ढौकयित्वा रत्नजातमुपविष्टो महीभुजा । अयं मत्स्योदरप्रोक्तो वणिगित्युपलक्षितः ॥ ३२ ॥ मत्स्योदरोऽपि तं दृष्ट्वा तथा तिलक सुन्दरोम् । जिज्ञासुस्तदभिप्रायं गोपिताङ्गोऽभवत् तदा ॥ ३३ ॥ आललापाथ भूपालः सार्थवाहं ससंभ्रमः । भद्र त्वं कुत आयासीः का चेयं बालिका वरा ॥ ३४ ॥ सोsarचत कटाहाख्यदीपादत्रागतोऽस्माहम | इयं च जलधेरन्तर्द्वी पे लब्धा मयैकका ॥ ३५ ॥ सुवस्त्राहारताम्बूलालङ्कारैः सत्कृताऽपि हि । राजंस्तवानुमत्यैव भवेन्मम गृहिण्यसौ ॥ २६॥ राजा प्रोवाच हे सुभ्रु किं तेऽयं रोचते वरः । अथवा त्वामयं कामो बलादेव रिरंसते ॥ ३७ ॥ साऽवादीत्कोऽस्य पापस्य गृह्णीयादभिधामपि । गुणरत्ननिधिः सिन्धौ प्रक्षिप्तो येन मे पतिः ॥ ३८ ॥
२
(१) ग घ ङ च ज -त्माऽभवत् क्षणात् ।
(२) ग घ ङ च ज -खनिः ।
GG