SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । धनदोऽप्यवदत्तावद्द णिग्जातिमवेहि माम् । भग्ने याने फलहकं संप्राप्यागामिह प्रभो ॥ ८८ ॥ निरीक्ष्यमाणो नगरं मत्स्येन गिलितोऽस्माहम् | गृहीतः स तु कैवर्तेर्जठरं चास्य दारितम् ॥ ८८ ॥ दृष्टश्च तस्य मध्येऽहं ततश्चैभिः सविस्मयैः । भवत्पार्श्व समानीतो राजनिति कथा मम ॥ ८० ॥ स्वचालितनीरेण स्नपितः सोऽथ भूभुजा । मत्स्योदराभिधानश्च स्थापितो निजसन्निधौ ॥ ८१ ॥ तत्प्रार्थितेन तेनासौ विदधे च स्थगीधरः | निनाय दिवसानेवं स्वस्वरूपमवेदयन् ॥ ८२ ॥ सुदत्तः सार्थवाहोऽथ तस्य पूर्वापकारकृत् । वातप्रेरितपोतेन तत्त्रान्येद्युः समाययौ ॥ ८३ ॥ गृहीत्वा प्राभृतं सोऽपि प्रतीहारनिवेदितः । आययौ नृपतेः पार्श्वे निषस्मश्च कृतानतिः ॥ ८४ ॥ राजाऽपि वणिजस्तस्य प्रियालापं स्वयं व्यधात् । दापयामास ताम्बूलं स्थगोधरकरेण च ॥ ८५ ॥ विज्ञाय सोऽथ तत्तस्मै ददौ भूत्वा मुखाग्रतः । म सुदत्तोऽपि धनदमुपलक्षयति स्म तम् ॥ ८६ ॥ परं सोऽघटमानत्वात्किञ्चित्सन्देह तत्परः । भणितो भूभुजा यत्तेऽईदानं भवतादिति ॥ ८७ ॥ महाप्रसाद इत्युक्त्वा जिजस्थानं गतोऽन्यदा । पप्रच्छ पुरवास्तव्यं पुरुषं कञ्चिदित्यसो ॥ ८८ ॥ १० ७३
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy