________________
६
श्रीशान्तिनाथचरित्र
ईषन्निद्रायमाणऽथ सचिन्ते श्रेष्ठिनन्दने । जज्ञे चलयति स्वाङ्ग शुष्कपत्रभवो ध्वनिः ॥ ७४ ॥ अयं वनचरो जीवः कोऽपि यातीति लुब्धकः । विव्याधनं शरणांह्रो हृदीवासज्जनो गिरा ॥ ७५ ॥ वेध्यं विइमिति व्याधस्तत्समीपमुपागमत् । धनदोऽपि प्रहाराततॊ गाथामुच्चरति स्म ताम् ॥ ७६ ॥ तच्छ्रत्वा लुब्धको दध्यौ हा मया मूढचेतसा । निविस्मः पथिकः कोऽपि सुप्तो बाणेन ताडितः ॥ ७७ ॥ जचे च भद्र कुत्राने मया विद्धोऽस्यजानता। इत्युदित्वा तस्य पादादाचकर्ष स सायकम् ॥ ७८ ॥ पट्टबन्धं व्रणे तत्र कुर्वाणं तं न्यवारयत् । निजं स्थानं प्रयाहीति धनदो विससज्ज तम् ॥ ७ ॥ निर्गच्छति व्रणादक्ते जाते च रजनीक्षये। भारण्डपक्षिणा निन्ये स संस्थितधियाऽम्बरे ॥ ८० ॥ मुक्त्वाऽथ वारिधेमध्यदीप खादितुमुद्यत: । जीवन्तं तं च विज्ञाय ययावुड्डीय पक्ष्यसौ ॥ ८१ ॥ उत्थाय धनदो यावत् ऐक्षताशाः समन्ततः । तावत्तत्राटवी भीमामपश्यन्मानुषोज्झिताम् ॥ ८२ ॥ दध्यौ च क्व पुरं तन्मे क्व चेयं भीषणाऽटवी। अथवा चिन्तया मेऽलं दैवचिन्ता बलीयसी ॥ ८३ ॥ क्षुत्तषणापीडितः सोऽथ भ्रमंस्तत्र फलाशया। ददर्शकं पुरं शून्यं पतितावाससञ्चयम् ॥ ८४ ॥