________________
प्रथमः प्रस्तावः ।
राजा तु सत्यभामा सा पुन: पृष्टाऽब्रवीदिति । नैतस्माद्यदि मे मोक्षस्तन्मरिष्यामि निश्चितम् ॥ ५७ ॥ राज्ञोचे कपिलो भूयो हंहो धृत्वा बलादमूम् । स्त्रीहत्यां किं करोषि त्वं किं बिभषि न पाप्मन: ॥ ५८ ॥ अस्मद्राज्ञीसमीपस्था तिष्ठत्वेषा यथासुखम् । दिनानि कत्यपौत्युक्तो मेनेऽसौ कपिलोऽपि तत् ॥ ५८ ॥ सत्यभामा विनीता सा कुर्वाणा शोलरक्षणम् । राजराज्ञीसमीपस्था गमयामास वासरान् ॥ ६० ॥ सूरिविमलबोधाख्यो विहरनवनीतले । तत्रागत्य पुरेऽन्येास्तस्थौ स्थाने यथोचिते ॥ ६१ ॥ सूरेरागमनोदन्तमाकर्ण्य जनतामुखात् । ययौ तहन्दनाहेतोः श्रीषणपृथिवीपतिः ॥ ६२ ॥ सूरिं नत्वा यथास्थानमुपाविक्षन्महीपतिः । तमुद्दिश्य मुनीन्द्रोऽथ विदधे धर्मदेशनाम् ॥ ६३ ॥ मनुष्यकादिसामग्री सम्प्राप्यापि प्रमादिनः । ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥ ६४ ॥ जैन धर्म समाराध्य भूत्वा विभवभाजनम् ।
प्राप्ता: सिद्धिसुखं ये ते श्लाघ्या मङ्गलकुम्भवत् ॥ ६५ ॥ तद्यथा
उज्जयिन्यां महापुयां वैरिसिंहो महीपतिः । सोमचन्द्रा च तद्भार्या धनदत्तश्च श्रेष्ठाभूत् ॥ ६६ ॥
(१) क घ ङ अथ तत् ।