________________
एकादशः सर्गः
अथ सागरपक्षीयः सान्तीदासो महर्दिकः । श्रावकः श्रावकाधीशो नरेश इव शोभते ॥१॥ श्रीमत्यहम्मदावादे वदावदवशंवदः । श्रीमत्सागरपक्षीयमूरिधर्मपरायणः ॥ २ ॥ युग्मम् । एकदा व्यमृशच्चिने स्वीयगर्योः परस्परम् । कथं विवाद एकत्वे द्वित्वं चापि कथं पृथक् ॥३॥ प्रभाते गुरुमापृच्छय परस्परप्ररूपणाम् ( --धर्म द्वयनरूपणाम् -इति वा पाठः)
निर्णयानि हि साक्षित्वमङ्गीकृत्य तदा वरम् ॥४॥ युग्मम् । गुरोः पार्श्व समागत्य श्रीगुरुं स न्यवेदयत् । मदुक्तं वचनं सत्यं कुरु चेदरमिच्छसि ॥५॥ विजयदेवसूरीन्द्रं श्रीमन्मेदतटात् पुरात् । आह्वयाऽन्याऽदरं कृत्वा मुक्त्वात्मीयजनानपि ॥६॥ यदि त्वं पूर्व शास्त्राणामनुसारनिरूपिताम् । कुर्याः प्ररूपणां सारां नान्यथा द्वेषपोषिकाम् li७|| सूरे सर्वजनीना यज्जिनधर्मप्ररूपणा । क्यापि पारंपरीणा च भवेत्सर्वपथीनिका ||८|| ततस्तस्य गुरुः प्राह-ब्रूषे श्रावक सुन्दरम् । तमाह्वय, स आयातादायान्यहमितो ध्रुवम् ॥९॥ सान्तीदासस्तदोत्थाय साधर्मिकानकारयत । तानापृच्छय च तानेव तमाहातुमचालयत् ॥१०॥ विजयदेवसूरीन्द्रश्रावकैरपि संयुतान् । परस्परमुभी ते हि यद्विरोधनिषेधकाः ॥११॥ युग्मम् । प्रचलन्तस्त आगच्छन् पुरे श्रीमेदिनीतटे ! विजयदेवसूरीश्च प्राणमन् प्रेमपूरिताः ॥१२॥ ताभ्यामुक्तामवोचं च वाचं वाचंयमेशितुः । पुरतः प्रीतिकी ते पत्राणि च ददुः करैः ॥१॥ श्रुत्वा सूरीश्वरो वा तत्पत्राणि प्रवाच्य च । हृद्यमोदत निर्द्वन्द्वो जयो द्वन्द्वक्षयस्सताम् ॥१४॥
( अथवा-हृद्यमोदत निदे॒षो जयो द्वेषक्षयः सताम् -इति पाठः) ८-सर्वजनीना सर्वजनेषु प्रसिद्धा । पारम्परीणा परम्परया प्राप्ता । सर्वपीनिका सर्वपथीना एव सर्वपथीनिका सर्वपथिषु अव्याहता सर्वजिनधर्ममार्गेषु अव्याहता इत्यर्थः । सर्वजनीना सर्वपीना-इत्युभयत्र प्रसिद्भाव्याहत्तयोजनपथोर्णित्वं था वक्तव्यं इति वातिकात् खप्रत्ययः । पारम्परीणा इत्यत्र युगपरम्पराह्नां भवनं प्राप्तसमूहे ख इति खः ।
९-आयात्तात् इति या प्रापणे लोट: तातडादेशेरू । आयानीति क्षण नदी बाङपूर्वः इत्यस्य लोटः उत्तमपुरुषस्य निरिति मेनि इत्यादेशे आसमस्य पिरति आडागमे रूपाए ।
११-उभी इयत्र श्रीविजयदेवमूरित्रावासमुदायापेक्षया सागरपक्षीयश्रावकसमुदायापेक्षया च द्विवचनम् ।
१३-ताभ्यां सागरपक्षीयसूरिकशिता सान्तीदास कथिनां च वाचं वचनं । वायशितुः श्रीविजयदेवसूरिगुरोः पुरतोऽमे।
Aho I Shrutgyanam