________________
३५
सर्गः ]
विजयदेवसूरि-माहात्म्यम्
श्रीनेऽपि तदावादीदाश्रवो भवतोऽस्त्ययम् । मा प्रमाय हृदानन्द्य सद्यः श्रीमल्ल तं कुरु ॥ ततः श्रीमल आनन्दात्तदानीं मोदमेदुरः । श्रीसङ्घस्य समक्षं स्राक् इति पत्रे व्यलेखयत् ||२४|| स्वस्ति श्रीदेवमादीन्य सर्वाभीष्टार्थदायकम् । श्रीमत्यहम्मदाबादपुरे सद्भर्भरीवरे ||२५|| विजयसेनसूरिः स जिनशासनभूषणम् । राजते यस्तपः कुर्वन् हन्ति पातकदूषणम् ॥२६॥ त्वरितं दुरितं हन्ति नामोच्चारोऽपि ते कृतः । किं स्तुमस्त्वत्पदाम्भोजवन्दनापूजने गुरो ॥ तत्र स्युः सम्पदः सद्यो निरवद्या निरापदः । यत्र त्वच्चरणन्यासः किं स्तुमस्त्वत्पद स्थितिम् ॥ एवं सूरीश्वरं स्तुत्वा वन्दते च वदत्यदः । स्तम्भतीर्थस्थितः श्राद्धः श्रीमल्ल सङ्घसंयुतः ॥ २९ ॥ प्रमोदे चाभिनन्दामि भवत्पादप्रसादतः । इच्छामि च भवत्कायकुशलं कुशलप्रदम् ॥३०॥ पूज्यराज पदाम्भोजमकरन्दस्त्वदीयकः । मदीयनेत्ररोलम्वं पुष्णात्वत्रागमोद्भवात् ॥ ३१॥ 'भूयांसः श्रावकाः सन्ति पदोत्सव विधायकाः । परमस्योत्सवं कर्तुं चिकीर्षामि गुरूत्तम ||३२|| श्री पूज्यात इहागच्छ सङ्घमापृच्छ्य सर्वतः । पिपर्मि परमं सर्वं मामकं हि मनोरथम् ||३३|| पत्रमीदृशमालिख्य श्रीगुरूचितमादरात् । अलिखत्स पुनः पत्रं श्रीसङ्घोचितमादृतम् ||३४|| तद्यथा-स्वस्ति श्रीजिनमानम्य, रम्यधर्मपरायणम् । श्रीमदहम्मदावादपुरवासिमहाजनम् || श्रीमल्लः स्तम्भतीर्थस्थो ज्योक् करोति करोति च । विज्ञप्तिं विनयेनेति विनयी विनयीश्वरम् || विजयसेनसूरीन्द्रा विद्याविजयनामकम् । युवराज्यपदे स्वीये धर्म्ये न्यसति सम्मति ||३७|| कर्तुं तस्योत्सवं श्रीमत्सङ्गादेशेन भक्तितः । वाञ्छामीति ततः सङ्घे मुञ्चतादिह सद्गुरुम् ॥ ३८ ॥ इह श्रीस्थम्भतीर्थे
बिभर्तु परमं प्रेम श्रीसंघो मयि सेवके । पिपर्तु च जनाभीष्टमिमं मन मनोरथम || ३९ ॥ इति पत्रं समालिख्य श्रीसङ्घोचितमद्भुतम् । आह्वयत्सेवकं स्वीयं श्रीमल्लः श्रावकस्ततः ॥४०॥
२३-भयं श्रीसङ्घो भवतस्तव आश्रवः कथनकारी अस्ति । आश्रयो ववनेस्थित इति हैमः । २४-भर्भरीशब्द औणादिकः श्रीपर्याय: । सत्या विद्यमानया प्रशस्तया वा न्यायोपार्जितत्वात् । भर्मर्या श्रिया वरंयत्तत् सद्भर्भरीवरं तस्मिन् |
३९ - ज्योकू इति कालभूयस्त्वप्र भयोः । ज्योग् जीवामः: ज्योक् कृत्य नृपतिं गतः । विनयी विनयवान् । कथंभूतं महाजनं ? विनयीश्वरं विनयवतां नायकं यद्वा विनयी विनयवान् स चासावरच समृद्ध इति कर्मधारये विनयश्विरस्तं । अनेन श्रीमदहम्मदावादवासिमहाजनस्य विनयोपेतत्वं महर्दिकत्वं च दर्शितम् । इतीति किं ? तदाह.
४० - श्रीसङ्घ इमं पट्टाभिषेकोत्सवकरणलक्षणं मम मनोरथं पिपर्तु पूरयतु । कथंभूतं इमं मनोरथं जनाभीष्टं जनस्य अर्थात् श्रीमदहम्मदावादाद्यपरनगरवासिमहाजनस्याभीष्टो जनाभीष्टस्तं । अनेन विशेषणेन श्रीमदहम्मदावादपत्तनाद्यनेकनगरनिवासिनां महर्द्धिकानां श्राचकाणां पदमहो
Aho! Shrutgyanam