________________
[षष्ठः
श्रीवल्लभोपाध्यायविरचितं
षष्ठः सर्गः
अथो विजयसेनाख्यो वर्याचार्योऽभ्यमन्यत । श्रीमान् वासकुमारोऽपि मिथोऽद्यसुकृतार्थताम् ।। अधीयानं गुरोः पार्थेऽकुर्वाणं पर्युपासनाम् । आश्रवोऽयं विधेयोऽयमित्यवादीत्तदा गुरुः ।। गुरुहस्तमभावेन दीप्यते वर्धते च सः । गुरुः शिष्यप्रभावेनैवतैवं चाप्यऽदीप्यते ॥३॥ ___ तद्यथा-कियत्यपि गते काले, लेभे मूरिपदं ततः।
निःसपत्नं स साम्राज्यमिवोग्राऽग्राज्ञयाऽन्वितम् ॥ ४ ॥ विजयसेनसूरीन्द्र इति नामाऽभवद्भुवि । विख्यातं श्रीगुरुख्यातं सन्मुखापारमेश्वरात् ॥५॥ ततः कुर्वन् महीपीठे धर्मराज्यं विशेपतः । अधिकाधिकतेजास्स भवन् मावर्तताचिरात् ॥ श्रीमतोऽकब्बराख्यस्य पातिसाहेः सुसंसदि । षड्दर्शनानुसम्बन्धि वार्ता प्रावततान्यदा ॥ तदा च कोविदः कश्चित् पातिसाहिं न्यवेदयत् । पञ्चदर्शनविद्वांसस्तिष्ठन्ति भवतोऽग्रतः ॥ हीरविजयमूरीन्द्रशिष्यः षष्ठोऽस्ति वादिपः । विजयसेनसूरीन्द्रः स त्वत्तोऽन्यत्र तिष्ठति ॥९॥ मनुते स च नो गङ्गां रामं च परमेश्वरम् । इत्यादिभिर्वचोभिस्स तं चेति प्रत्यबोधयत्।।१०॥ पातिसाहिस्ततोऽत्यन्तं तमाह्वातुं समुत्सुकः । अलेखयत्तदाहूत्यै स्फुरन्मानं घनादरम् ॥११॥ स्वसेवककरे दत्वा स्फुरन्मानं तदा मुदा । त्वमानयमाहूयेत्यऽवदत् सेवकं हि सः ॥१२॥ स तदा शिरसि न्यस्य स्फुरन्मानं तदाज्ञया । प्रस्थाय राधनपुरे मूरेः पाश्वं समाययौ ॥१३॥
-प्रस्थाय राजधन्याख्यपुरे पार्थं गुरोर्ययो-इति पाठान्तरम् ॥ श्रीसूरीश्वरमानम्य तदालोकनतस्तदा । रोमाञ्चिततनुः मादात् स्फुरन्मानं स तत्करे ॥१४॥ श्रीसङ्घस्य समक्षं स स्फुरन्मानमवाचयत् । वाचं वाचं गुरोश्चित्तं सहश्च मुमुदेतराम ॥१५॥ सेवकं पातिसाहेश्व श्रीसढगे मोदयत्तराम् । जीवितार्हस्वदानाच मृष्टान्नादिकभोजनात् ॥१६॥ प्रातिष्ठत ततः सूरिः सुमुहूर्त शुभे दिने । श्रीमन्तं समापृच्छ्य सुधी-साधुसमन्वितः ॥१७॥
आयो नयविजयाख्यः १ श्रीमेघविजयो २ ऽपरः। श्रीमेरुविजयो ३ विद्वान् , श्रीनन्दिविजयः ४ कविः ॥१८॥
२-आश्रवो वचने स्थित इति कथनकारीत्यर्थः। विधेयो विनयप्राही इत्यमरः ।
५-श्रीगुरुणा श्रीहरिविजयसूरीन्द्रेण ख्यातं कथितं श्रीगुरुख्यातम् । कस्मात् सन्मुखात् प्रधानवदनात् , कथंभूतात् सन्मुखात्, अत एव पारमेश्वरात्-परमेश्वरस्य इदं पारमेश्वरं तस्ये - दमित्यम् । पारमेश्वरमिव पारगेश्वरं उत्प्रेक्ष्यते; परमेश्वरमुखमिवेत्यर्थः , तस्मात् ।
१३-राजधन्याख्यपुरे रायधणपुरे इत्यर्थः ।
Aho I Shrutgyanam