________________
२४
श्रीवल्लभोपाध्यायविरचितं
[ पञ्चमः
तत्राग्रे सहकारः प्राकू हकारेकारयुग् भवन् । लोकोक्तां सुनृतां वार्तां ज्ञात्वा निरचिनोदिति ॥ श्रीमान् वासकुमारोऽयं प्रविवषिताश्वरः । सूरिः सूरिस्ततो भावी पूर्वजेभ्योऽधिकद्युतिः ॥ नीलकौशेय संशेऽभिपत्रश्रेणिविराजिताः । यत्र रम्भा वभुः स्वर्णमूला इन्द्रध्वजा इव ॥ २२ ॥ फलिताः शाखिनो यत्र बहुधैवं विरेजिरे । कर्तारो दिव्यसस्यानि भर्तारः सर्वसम्पदः ||२३|| केतकी-यूथिका-जाति-जपा-कुन्दादिकांश्च यः । पृथकूरूपान् पृथकवर्णान् पुष्पवृक्षानकारयत् || एवं दीक्षा सामग्री क्रीडावातोद्यजातयः । मोदकाद्यानि खाद्यानि निरपद्यन्त तद्गृहे ||२५|| सोsपि वर्णके पुत्र शुभेऽह्नि कविवन्नृपम् । कौसुम्भवस्त्रसंयुक्तः प्रातर्वालार्कवत्तदा ||२६|| सख्योऽभिगायतोलूलून संवर्धयत मौक्तिकः । श्रेष्ठिनः श्रीस्थिराकस्य पुत्रः परिव्रजत्ययम् ॥ आचख्युरिति गायन्त्यः काश्चित्काश्वित्सखीः प्रति ।
कार्याण्यन्यानि सन्त्यज्य त्वरध्वं तं प्रतीक्षितुम् ||२८|| युग्मम् || चारुकर्पूरकस्तूरीकुङ्कुमादिविमिश्रितम् । स्फुरत्परिमलोपेतां शिष्टां कुरुत पिष्टिका ॥ २९ ॥ toursोदकैरुष्णः सम्यक् स्नपयत द्रुतम् । दृष्टिदोषाच्च रक्षायै यतध्वं द्वन्द्ववर्जिताः ॥३०॥ गन्धकारित्वतस्तस्य फुलमालादिगर्भितम् । न्यबध्नन् मूर्ध्नि धम्मिल्लं वक्रं ग्रीवेव वाजिनः ॥ विलिप्तव्य केशवमूर्तिवत् । कर्पूरागरुकस्तुरीमिश्रचन्दनकुङ्कुमैः ॥ ३२ ॥
सर्वाङ्गेषु संयुक्त मुक्ताभिः कान्तकान्तिभिः । बभौ चन्द्रार्कताराभिराकाश इव निर्मलः ॥ आनाभिलम्बितान मुक्ताहारांस्तारान् स पर्यधात् । लावण्यनीरथेः पीनफेनबुद्बुदसन्निभान् ॥ चोलोष्णीषादिवत्राणि देवदृष्योपमानि च । पर्यधात्स ततः काये सौवर्णाभरणानि च ॥ ३५ ॥ sattra तदानों से पुष्पितः फलितोऽपि च । विधाता वाञ्छितार्थानां कल्पवृक्ष इवाङ्गवान् । स व वरयात्रासु राजेव विरराज हि । ग्रहणैर्मुकुटात्तसैश्छत्र सह चामरैः || ३७ ॥
२०-तत्र आरामे प्राक् पूर्वं सहकारः इति लोकोक्तां सूनृतां बार्ता ज्ञात्वा निरचिनोत् निश्चयं चकार । किं कुर्वन् सन् हकारेकारयुग् भवन् । हकारे ह इत्यक्षरे यः ईकार: चतुर्थस्वरः सकारेकारः । तेन युनक्ति यः स हकारेकारयुग, हकाराक्षर चतुर्थ स्वरयुक्तो भवन जायमानः सहकार इत्यर्थः । इतीति किं तदाह
२३- करणशीलाः कर्तारः भरणशीला भर्तारः - अत्र उभयत्र तृन इति तच्छीलेऽर्थे तृन् प्रत्ययः । दिव्यसस्यानि संपदः इत्युभयत्र न लोकाव्ययनिष्ठाखलर्थवृनामिति षष्ठीनिषेधात् नपुंसकस्त्रीलिंग द्वितीयाबहुवचनम् ।
३५-चोलः आडण इति लोकाभाषाप्रसिद्धः । चुलपरिवेष्टने सौत्रः | चुल्यतेऽनेन चोलः आप्रपदीनं कञ्चुकं इति क्षीरस्वामिव्याख्यानात् । उष्णीषः पाघडी इतिभाषा । उष्णीष मूर्द्धवेष्टनमिति हैमः ।
Aho ! Shrutgyanam