________________
सर्गः ।
विजयदेवमूरि-माहात्म्यम् कीदृशं गौरवं ? धार्म २ स्वरूपं पारमेश्वरम् ३ । कथं चास्मादृशैः पुंभिः प्राप्यते परमेश्वरः।। इत्यादि धर्मसम्बन्धी विचारश्चतुरोचितः । श्रीमता साहिना प्रष्टुमारेभे च परस्परम् ॥४९॥ तदाऽवादीदिदं वादी स्याद्वादी प्रतिवादिनम् । एतत्स्वरूपं प्राप्तिं च, शणु त्वं पारमेश्वरीम्।। तद्यथा-दर्शनानि हि घट्सन्ति सन्ति तद्गुरवोऽपि षट् । शासनान्तरभेदेन गुरवो बहवोऽपि च ॥ बुद्धशानादयस्तेषां देवास्सद्गरवोऽपि च । विषयादौ सदा सक्ताः सम्यग् जानाति तान् भवान् ॥ धर्मोऽपि तादृशस्तेषां विषयादौ प्रवर्तनात् । तपस्सु च फलादीनामाहारान्निशि भोजनात् ।।
-इत्यपरशासने गुरोर्धर्मस्य च स्वरूपम् । तेषां मध्यादिम जैन धर्म शुश्रूषसि प्रभा!। श्रोतुं तं च त्वमोऽसि मां ब्रुवन्तं च तं शृणु ॥ साधुश्रावकभेदाभ्यां धर्मोऽयमुदितो द्विधा । पञ्चव्रतो यतीनां स्यात्, श्राद्धानां द्वादशव्रतः ।। इति सत्यपि भेदेऽस्मिन् सर्वसाधारणः खलु । धर्मोऽभिप्रेत एवायमहिंसा १ संयमः२ तपः३॥ धर्मोऽयं तीर्थकृत्योक्तो दायी स्वर्गापवर्गयोः। क्रियमाणः सदा लोकैरेतद्दोषविवर्जितः ॥५॥
इति धर्मस्वरूपम् । जीवलोकस्य यो वन्धु१र्गत्यम्बुधिपारगः । ज्ञानादिना महाभागो गुरुः स शिवसाधकः ॥५४॥ क्षीरास्त्रववचा नित्यं मध्वास्लववचा ध्रुवम् । शिक्षां धर्मोपदेशं च यो दत्ते स गुरुमंतः ॥१९॥ दुर्जेयान् विषयान् सर्वान् कषायांश्च गृहंगृहाः। य उज्झति मनोहर्षविषादौ स गुरुभवेत् ॥६०॥ स्यक्त्वा वैरं विरोधं च दोषानष्टादशापि च । प्रसन्नवदनो यः स्यात् स गुरुः सद्गुणः स्मृतः।।
- इति गुरुस्वरूपम् । रागद्वेषौ सदा इन्ति दुष्कर्माष्टकद्विषः । विषयान यः कषायांश्च स भवेत् परमेश्वरः ॥ ६२ ।। त्यक्त्वा राज्यं विदव्याग्रस्तपश्चरणमुत्तरम् । लब्ध्वा च केवलज्ञानं श्रयेत्स शिवमीश्वरः ॥६॥
४८-गुरोरिदं गौरवं स्वरूपं १ धर्मस्येदं धाम स्वरूपं २ परमेश्वरस्येदं पारमेश्वरं स्वरूपं ३ एतेषु विष्वपि तस्येदमित्यण प्रत्ययः ।
__ ५०-वादी श्रीहीरविजयसूरिः तदा प्रतिवादिनं पातिसाहिं अकब्बरमिदमवादीत् । इदमिति किं ? एतत्स्वरूपं एतेषां गुरु-धर्म-परमेश्वराणां स्वरूपं एतत्स्वरूपं तत्कर्मतापन्नम् । च: पुनः पारमेश्वरीं परमेश्वरस्य प्राप्तिं च लाभं त्वं पातिसाहे ! अकबर ! शणु ।
५९-चक्रवर्तिसम्बन्धिनो गोलक्षस्य भक्षितेक्षुक्षेत्रस्य आदिविशेषस्य अर्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सम्बन्धि यक्षीरं तदिव माधुर्यरसं आस्रवति मुञ्चतीति क्षीरास्रवं, एवंविधं वचो वचनं यस्य सः क्षीरानववचाः । मधुशर्करादि मधुर द्रव्यं तत् आस्रवति मध्वास्रवं एवंविधं वचो यस्य स मध्वानववचाः ।
Aho I Shrutgyanam