________________
सर्गः ] विजयदेवसूरि-माहात्म्यम्
१३ विम्बानि कुन्थुनाथस्य प्रत्यतिष्ठद्य उत्सवात् । सीरोहीनगरे भाति स हीरविजयो गुरुः ॥ तथा नारदपुर्यां यः प्रत्यतिष्ठन्महोत्सवात् । जिनविम्बान्यनेकानि स मूरिवर्तते भुवि ॥१७॥ श्रीस्तम्भतीर्थ-पत्तन-श्रीरामनगरादिषु । सहस्रशोऽहंतां बिम्बप्रतिष्ठां सोऽस्ति यो व्यधात्॥१८॥ लुङ्कामतपतिर्बुद्धः स ललौ मेघजी ऋषिः । दीक्षां नवीनां यस्याग्रे स सूरि वि भासते ॥१९॥ श्रीमत्यहम्मदावादनगरे नगरोत्तमे । ज्ञात्वा लुकामतैश्वर्यमिति दुर्गतिकारणम् ॥२०॥ आधिपत्यं च दीक्षां च त्यक्त्वा लुङ्कामतस्य हि । साधुभिः पञ्चविंशत्या संयुतोऽर्हन्मतौ रतः॥ सूरिसेवैकचित्तोऽदात् पातिसाहिरकब्बरः । स्ववादित्राण्यनेकानि यस्य दीक्षामहोत्सवे ॥२२॥
-चतुर्भिविशेषकम् ॥ ख्यातोऽवदात एतादृक् श्रुतपूर्वो न कस्यचित् । तमवाप यदा मूरिरासील्लोके तदाद्भुतम् ॥ यदीयोपशमादीनां गुणानां सत्यवर्णनाम् । प्रधानपुरुपैः प्रोक्तमशृणोदेकदा तदा ॥२४॥ कालेऽस्मिन्नीदृशः कः स्यादिति चित्ते चमत्कृतः । तदेत्यचिन्तयश्चित्ते पातिसाहिरकब्बरः॥२५ इत्यचिन्तयत्-इतीति कि तदाह
[ -युग्मम् । तमाकार्य निरीक्षेय परीक्षेय च तद्गुणान् । पृच्छेयं च वृषः कीदक् ततो वन्देय भक्तितः।।२६ सोऽभ्यपृच्छत्तदा चैवं प्रधानपुरुषान्प्रति । विचरत्यधुना कुत्र क्व च तिष्ठति तद्वद ॥ २७ ॥ ते पाहुस्तद्वचःनीता इति प्रालयस्तदा । गन्धारबन्दिरे स्वामिन, मरिचसति सम्पति ॥२८॥ आकर्येत्युभयाकर्णि जातरोमाञ्चिताङ्गरुक । कदागच्छेत्कदा तं च देयौत्सुक्यतस्त्विति ॥२९॥ फरमानं तदाहृत्य लेखयामि तदाद्भुतम् । स्वीयनामाङ्कितं सत्यमिति चित्ते व्यचिन्तयत् ॥३०॥ लेखयित्वा तदा दिव्यं सकाशात्स्वनियागिनः। फुरमानं घनामानबहुमानमनोहितम् ॥३१॥ आज्ञाविधायिनो विज्ञान्स प्रेष्यान् प्रेषयत्तराम् । तेषां पाणौ च दत्त्वाशु प्रति गन्धारबन्दिरम्
१९-२०-स सूरिः श्रीहरिविजयसूरि वि भासते शोभते । स कः यस्य श्री हीरविजयसूरेरग्रे स मंघजी ऋषिर्नवीनां दीक्षां ललौ । कथंभूतो मेघजीऋषिः लुकामतपतिः । पुन कथंभूतो मेघजीऋषिर्बुद्धः प्रतिबुद्धः अर्हत्प्रतिमापूजावन्दनादीनामानानात् । किं कृत्वा ? लुङ्कामतैश्वर्य दुर्गतिकारणमिति ज्ञात्वा । क्व दीक्षा ललौ? श्रीमति अहम्मदावादनगरे। कथंभूते नगरोत्तमे । पुनः किं कृत्वा हि निश्चितं लुकामतस्य आधिपत्यं पुनर्दीक्षां त्यक्त्वा । पुनः कथं० मेवजीऋषिः ? पञ्चविंशत्या साधुभिः संयुतः । पुनः कथं० अर्हन्मतो रतः अर्थात् अर्हत्प्रतिमाया अस्तित्वपूजनप्रणमनादीनङ्गीकरणे रतः । स कः ? यस्य मेघजीऋषेर्दीक्षा महोत्सवे अकबर पातिसाहिः अनेकानि स्ववादित्राण्यदात् । कथं० अकबरपातिसाहिः सूरिसेवैकचित्तः-सरेः श्रीहरिविजयनाम्नो भट्टारकस्य सेवायां एकं चित्तं यस्य स तथा । मेघजी ऋषिरित्यत्र इत्या भात प्रकृतिभावः ।
Ahol Shrutgyanam