________________
आसन् । अस्यां दुःख
ततो व्याधिग्रस्तः स सदुपचारार्थ भावनगरे " तख्तसिंह - हॉस्पिटल " इति नामधेयसुप्रसिद्धे औषधालये आनायितः, किन्तु तत्समये अन्यान्यरोगिणां बाहुल्येन तदौषधालयस्य सर्वेऽपवरका रुग्णपरिपूर्णा प्रदपरिस्थितावपि साधर्मिकभक्तिपरिप्लुतमानसौ अमृतलाल - तलकचन्द्रौ स्वव्यवसायं परित्यज्य परिचितकर्मचारिणः प्रबोध्य भूरिभूरिपरिश्रमेणैकमपवरकं रिक्तमकारयताम्, तस्मिंश्च तं रोगग्रस्तं सुष्ठुरीत्या न्यवासयत्ताम्, औषधालयस्य च वैद्यकक्रियायां कुशलतमेवेंद्यराजैरुपचारं व्यधापयताम् । स्वार्थेकनिष्ठेऽस्मिन् संसारे करालपचमारेऽपि स्वार्थं परित्यज्याऽपि निःस्वार्थोपकारकारिण एतादृशा अत्यल्पा दृश्यन्ते ।
२०१५ तमे संवत्सरेऽस्माभिर्भावनगरे चतुर्मासी निर्वाहिता । अस्यां चतुर्मास्यां पर्वाधिराजश्रीपर्युषण पर्वणि एषां सप्तानां भ्रातॄणां मध्ये प्रथमेनाऽमृतलालेन अष्टौ उपवासास्तद्धर्मपत्न्या च पञ्च उपवासाः कृताः । तृतीयेन गिरधरलालेन दश उपवासा व्यधीयन्त । चतुर्थो भ्राताऽनन्तरायः पञ्चदश उपवासानकरोत् । यः साधु-साध्वीवैयावृत्त्यकरणेऽग्रेसरः, लघुवया अपि व्यवहारकुशलो, धीमान्, धर्मनिष्ठो, गृहस्थोऽपि मुनिप्रवरवत् शान्तस्वभावोऽस्ति । तस्य शीलालङ्करणा हीराभिधाना धर्मपत्न्यपि सदैव स्वपतिमार्गानुसारिणी वर्तते । पञ्चमो बन्धुर्मनसुखलालः पञ्चदश उपवासानकार्षीत् । षष्ठेन महीपतरायेणाऽष्टमं तपोऽकारि । सप्तमेन चाऽरविन्दरायेण षष्ठं तपोऽक्रियत । एषां हि चन्दनाभिधा जननी सप्त उपवासान् व्यधत्त । इत्थं खलु धर्मरक्तं समग्रमेतत्कुटुम्बं सम्यक्प्रकारेण पर्युषण महापर्वाऽऽरात्सीत् ।
अमीषां पितुर्ज्येष्ठो भ्राता जयचन्द्रोऽपि 'पिता वै जायते पुत्रः इति वेदवाक्यमनुसरन्निव स्वजनकवद् ऋजुहृदयो दयार्द्रचित्तश्चाऽभवत् । तस्य जयन्तिलाल - परमाणन्ददासनामधेयौ द्वौ पुत्रौ स्तः । घेटीग्रामे जैनधर्म भावितमानसैरुदारैः श्रावकैर्दत्तेन द्रव्यसाहाय्येन कारिते उश्वशिखरे भव्याजिनमन्दिरे मुम्बापुर्या आनीतायाः प्रभावशालि - श्रीमुनिसुव्रतस्वामि-
[ २९७
"Aho Shrut Gyanam"