________________
मुनि-विशालविजयः। जैनशासनप्रभावक आचार्य-श्रीबप्पभट्टसूरिर्बभूव, यस्योपदेशेन क्षत्रियैर्धारापरमारैजैनधर्मः स्वीचक्र । तद्धारापरमारवंशे वृद्धशाखीयस्तुगीयान गोत्रीयश्च राजधन्यपुरसमीपस्थगोचनागग्रामवास्तव्यो धनाढ्यः श्रवणनामा श्रेष्टी बभूव । तद्वशे राजधन्यपुरनिवासी दृढश्रद्धः सरलहदयस्विकमचन्दनामा श्रेष्ठयभवत् 1 तस्य सुशीलायाः प्रधानदेव्यभिधानाया धर्मपत्न्याः कुक्षेर्हरगोविन्ददास-वृद्धिलालाऽभिधानौ हौ पुत्रौ मोंघीतिनामधेया च पुत्री अजायन्त । हरगोविन्ददासः संस्कृतव्याकरण-न्याय-काव्यादीनां सुविज्ञाता, प्राकृत-पालीभाषयोर्विशारदः, न्यायतीर्थ-व्याकरणतीर्थतिलब्धमुपदवीका, विद्वत्संसत्सु सन्माननीयः, वीतरागशासने दृढश्रद्धश्चाऽभवत् । येन पण्डितवर्येण साक्षरमाननीयाः पाइअसहमहग्णवादा विश्रुता अनेके सद्ग्रन्थाविरचिताः, बह्वश्च संस्कृत-प्राकृतादयो ग्रन्था महता परिश्रमेण संशोध्य प्रकाशिताः । यो जगत्प्रसिद्ध वङ्गविश्वविद्यालये प्राकृत-पालीभाषयोः प्राध्यापककार्य शोभनरीत्या निरवीवहत् । ____ पण्डितवर्य-श्रीहरगोविन्ददासस्य वैराग्यवासितान्तःकरणो लघुभ्राता वृद्धिलालो वैक्रमीय १९७२ तमे संवत्सरे फाल्गुन शुक्लतृतीयातिथौ भागवती बृहद्दीक्षामगृह्णात् । स हि मुनिप्रकर-श्रीजयन्तविजयस्य 'मुनि-विशाल विजय' इति नामधेयः शिष्योऽभवत् । यः पञ्चविभागीय-गूर्जरभाषान्तरसहितसंस्कृत सुभाषितपद्यरत्नाकर ग्रन्थं द्वाषष्टिमार्गणाग्रन्थं च व्यरचयत् । येन च कावी-घोघा-खेडा-मातर-चारूप-सोजीत्रा-नाकोडा-भोरोल-मेत्राणाघोलका-गन्धार-झगडियादितीर्थानां पुरातत्वैतिहासिकग्रन्थाः प्राणीयन्त । २००६ तमे संवत्सरे मुनिश्रीविशालविजय-तपस्विश्रीजयानन्दविजयाभ्यां सदुपदेशेन बलभीपुरे स्वपरमोपकारिणः शान्तमूर्तमहात्मनो मुनिराजश्रीजयन्तविजयस्य आरसपाषाणीयभव्यप्रतिमाया महताडम्बरेण प्रतिष्ठा कारिता । २००८ तमे संवत्सरे मुनि-श्रीविशालविजयोपदेशेन राजधन्यपुरे पण्डितप्रवर-श्रीहरगोविन्ददासधर्मपन्त्या सुशीलया सुभद्रया ' पांच-छोड"
[१५
"Aho Shrut Gyanam"