________________
निर्वाणसमये प्रेषीद् , यदूरे गौतम भवान् । तत्वबलाप्तये तत्र, को हेतुः करुणां विना ? ॥ ७ ॥ वीतरागोऽपि जीवे भूयो, ह्य ददाद्धर्मदेशनाम् । न तत्र करुणाभिन्नो, हेतुरन्यस्तु संगतः यत्तु वागवणाकम, क्षपणायेव देशना । मतं तदप्यभावस्य, करुणाया न सूचकम् ॥ ९ ॥ तादृशे कर्मबन्धेऽपि, मुख्यं यत् कारणं स्मृतम् । जगद्दुःखप्रहाणेच्छास्त्ररूपा करुणैव ते ॥ १० ॥ अस्म्यहं निर्गुणस्तेन, करुणा क्रियते न चेत् । विषयः करुगाया न, गुणदोषविचारणा ॥ ११ ॥ गुणेषु पक्षपातस्ते, न स्थाने करुणावतः । मेघस्य वर्षतः किं स्यात् , स्थानास्थानविवेचनम् ॥ १२ ॥ सूर्यः प्रकाशयन्नेक, त्यजति श्वपचाश्रयम् । निर्गुणं मां तथा त्यक्तुमर्हन्नहति भो भवान् ॥ १३ ॥ सफला करुणा वा ते, सगुणान्निगुणेऽधिका । अविधूतोऽपि मरौ वृष्टि-विशेषेणापकारिका ॥ १४ ॥ नाधिकारः कृपायां ते, योग्यतारहितस्य मे । अन्योन्याश्रयदोषेण, दुरन्तेन हतोऽस्मि हा ॥ १५ ॥ ऋते यत् ते कृपां नाथ, योग्यता मे न भाविनी । विना मद्योग्यता सापि, दुर्लभा ते कृपेति च ॥ १६ ॥ किन्त्वीश ! केवलं तेषामेषा तर्कविडंबना । प्रभावं करुणायास्ते, ये विदन्ति न मानवाः ॥ १७ ॥ तणातर्कणीयं यदचिन्त्यं चेतसापि यत् । तद् द्राक् त्वत्कृपया साध्य, योग्यतायास्तु का कथा ? ॥ १८ ॥
२५४ ]
"Aho Shrut Gyanam"