________________
॥ श्रीनेमिनाथ-स्तवनम् ।। जयति यस्त्रिजगजनपङ्कजवजसरोरुहसोदरसोदर । यदुपतिभुवि नेमिजिनेश्वरः शमवतामक्तात् स पुरन्दरः ॥ १ ॥ हरिकुलाम्बुधिकौस्तुभमन्वहं जिनवरं विनयेन नमाम्यहम् । तरणिवत्तमसा ततिमत्रयो हरति मे रतिमेदुरिताशय ॥ २ ॥ वचनशैल्यविनिजितचन्दनं नमत नेमिजिनं यदुनन्दनम् । वितरति स्म समस्तजनाय यः सकलशंकलशंकलसंपदाम् ॥ ३ ॥ कृति ततीरलिभर्तृनिबर्हणे यमिह शैलसुतेशमुदाहरत् । जिनवरं विनमामि निरन्तरं गतमलं तमलंकरणं भुवः ॥ ४ ॥ अजनि नात्र शिवातनयोऽपि यो जनतया विनतो बहुलाङ्गजः । स जयतद् यदुवंशशिरोमणिगजगतिर्जगति प्रथितः प्रभुः ॥ ५ ॥ शिवपुरंध्रिकृतेत्यजति स्म यः प्रगयिनीमपि राजिमती विभुः । तमभिनौमि परास्तमुखप्रभाहिमकरं मकरं करुणाम्बुधौ ॥ ६ ॥ सलिलराशिसुतेव यदीयगीः समभवत् पुरुषोत्तमहर्षकृत् । विजयतां स जिनो जनवाञ्छितामरमणीरमणीषु पराङ्मुखः ॥ ७ ॥ जन मुनि मनोऽम्बुरुहातिमालिनं कलुषकसभिदावनमालिनम् । जलजलाञ्छनमीशमुपास्महे मदनवारणदारणवैरिणम् ॥ ८ ॥ इत्थं श्रीराजधनाभिधानपुर मण्डनं जिनो नेमिः । श्रीकमलविजयकोविंदशिशुना नुतः श्रिये भूयात् ॥ ९ ॥
॥ इति श्रीनेमिनाथस्तवनम् समाप्तम् ॥ इति भद्रं मु० गुणविजयेन कृतं लिखितं चेति भद्रं भवतु श्रीसंघाय गणिश्रीमतिविमलवाचनार्थमलेखि ।
"Aho Shrut Gyanam"