________________
३०
अत्र ०- सेवकीभूतो रोराभोऽहं यस्य तेन, 'टाइयोसि', २|१|७| इति यः । हे इन्द्रोपासित ! अर्थान्तरन्यासमाह-यतः सं० ॥३॥
अष्टादश
सर्पादिरूपतानीत - मह्यं रोपाय न त्वया । saकाशलेशोऽपि, युक्तं सेवकवत्सल: ॥ ४ ॥
"
अव० - सर्पादीनि रूपाणि यस्य स तत्तां नीतोऽहं येन स तस्मै, 'त्वमौ प्रत्यय ० | २|१|११| इत्यस्य प्राप्तावपि परत्वात् 'तुभ्यं मह्यं ङया' | २|१|१४ इति स्यात् । सेवकापराधिनां हि प्रभुणा नावकाशो देयः ||४||
नारकीभूतमत्पापात् पाहि स्वं सेवकं जनम् । अनुगामिममार्हस्ते, भाविनी विहतिः कदा ? ॥ ५॥
"
6
अ-नारकीभृतोऽहं यस्मात्तस्मात् । अनुगामी अहं यस्य तस्य, अत्रापि त्वमौ प्रत्यय ' | २|१|११| इति बाधित्वा परत्वान्ममादेशः । अयं हि सर्वजनसाधारणस्तवः । ततः सीमन्धरादिविहरमाण जिनाऽपेक्षया इदमाशंसनमुपपद्यते ॥ ५ ॥ अनुकम्प्याश्रितमयि त्वयि नाथे प्रसन्नता । भूयादवश्यं देव ! स्यां, फलेग्रहिजनुर्यतः ॥ ६ ॥
अव० - अनुकम्प्य आश्रितोऽहं यस्य तस्मिन, यतः फलेग्रहिजनुः स्यामित्यन्वयः । अपेक्षते न यच्छब्दस्तदम्
"Aho Shrut Gyanam"